OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, April 26, 2025

 पहल्ग्राम् भीकराक्रमणम्: यु एन् सुरक्षासमित्या सशक्तम् अपलपितम्।

  संयुक्तराष्ट्रसख्यम्> जम्मूकाश्मीरे दुरापन्नं भीकराक्रमणं यु एन् सुरक्षासमित्या सबलम् अपलपितम्। आक्रमणे अन्तर्भूतान् सर्वान् प्रत्यभिज्ञाय नियमस्य पुरतः आनेतव्यमिति सुरक्षासमित्या प्रोक्तम्। भीकराक्रमणे कारणभूतान् अपराधीन् , संघाटकान् , धन साहाय्यं दत्तान् सर्वान् गृहीत्वा न्यायालयस्य पुरतः अवश्यम् आनेतव्यमिति सुरक्षासमित्यङ्गाः सर्वे सुदृढम् अपेक्षितम् इत्यासीत् माध्यमप्रस्तावः। सुरक्षासमित्याः अध्यक्षेणैव संघाङ्गानां कृते प्रस्तावोऽयं बहिः प्रकाशिता।

Friday, April 25, 2025

 भारतं प्रतिप्रहरति। 

पाकिस्थानीयाः पलायनीयाः।

+ सिन्धूनदीजलसन्धिः जडीकृतः। + भारतस्य नयतन्त्रप्रतिनिधयः प्रत्याहूताः। + वागा-अट्टारि सीमा पिहिता।  +पाकिस्थानेभ्यः विसापत्रं न दास्यति। 

नवदिल्ली> गतदिने पहल्गामे दुरापन्नायां नरहत्यायां भारतस्य प्रतिप्रहारप्रक्रमाः आरब्धाः। भारते वर्तमानाः पाकिस्थानीयनागरिकाः क्षणेनेव भारतात् प्रतिगन्तव्याः इति सर्वकारेण आदिष्टम्। सिन्धुनदीजलं उपयोक्तुं पाकिस्थानाय दत्तः अनुज्ञासन्धिः शिथिलीकृतः। 

  पाकिस्थाने वर्तमानाः भारतस्य नयतन्त्रप्रतिनिधयः  प्रत्याहूताः। तथा च भारतात् पाकिस्थानस्य प्रतिनिधिभिः अचिरादेव राष्ट्रं त्यक्तव्यमिति आदिष्टम्। 

  वागा-अट्टारि सीमा कतिपयकालं यावत् भारतेन  पिहिता। नूतनानि विसापत्राणी पाक्-नागरिकेभ्यः न दास्यन्ति इति च भारतसर्वकारेण निगदितम्।

Thursday, April 24, 2025

पहल्गाम आक्रमणं - भीकराः पाकिस्थानेन परिशीलिताः।
 श्रीनगरं> जम्मु-काश्मीरस्थे पहल्गामे गतदिने विधत्तायाः नरहत्यायाः पृष्ठभूमिकायां पाकिस्थानस्य भागभागित्वं प्रकाश्यमानं वर्तते। सैनिकवेषेण आगत्य पर्यटकान् विरुध्य भुषुण्डिप्रयोगं कृतवन्तः भीकराः पाकिस्थानेन परिशीलनं लब्धवन्तः इति अन्वेषणसंस्थया निगदितम्। आक्रमणं कृतवतां त्रयाणां पाक् -भीकराणां रेखाचित्रं ऐ एन् ए संस्थया बहिर्नीतम्। एतैः सह आक्रमणं कृतवन्तौ द्वौ काश्मीरीयौ अपि पाकिस्थाने परिशीलनं लब्धवन्तौ इति सूच्यते। एतेषां भावचित्राणि समाजिकमाध्यमेषु प्रचरन्ति। आक्रमणं कृतवन्तः 'दि रसिस्टन्स् फ्रन्ट्' इति भीकरसंघटनस्य प्रवर्तकाः सैन्येन वलयीभूताः इति वृत्तान्तमस्ति।

 पहल्ग्राम् भीकराग्रमणम् - अद्य नवदिल्ल्यां सर्वदलमेलनं भविष्यति।

    नवदिल्ली> २६ जनानां मृत्युकारणभूतस्य पहल्ग्राम भीकराक्रमणस्य सन्दर्भे भारतसर्वकारेण अद्य सायङ्काले षट्वादने संसदभवने सर्वदलमेलनम् आयोक्ष्यते। मेलने प्रतिरोधमन्त्री राजनाथसिंहः आध्यक्षम् अवाप्स्यति। कोण्ग्रस्, डि एम् के, टि एम् सि, टि डि पि शिवसेना, आ र्जे डि, जे डि यु इत्यादि संघस्य विपक्षदलनेतारः भागं अवाप्स्यन्ति। भीकराक्रमणस्य विशदांशानि, स्वीकृताः प्रक्रमाः च मेलने विश्दीकरिष्यन्ति।

Wednesday, April 23, 2025

 पहल्गाम भीकराक्रमणम् 

प्रधानमन्त्री नरेन्द्रमोदी सौदीतः प्रतिनिवृत्तः। 

गृहमन्त्री श्रीनगरं प्रस्थितः। 

विश्वनेतृभिः आक्रमणमपलपितम्। 

नवदिल्ली>  काश्मीरे पहलगामप्रदेशे आपन्नस्य आतङ्कवाद्याक्रमणस्य गौरवमालक्ष्य सौदीराष्ट्रसन्दर्शनार्थं प्रस्थितवान् प्रधानमन्त्री नरेन्द्रमोदी कार्यक्रमान् संक्षिप्य राष्ट्रं प्रत्यागतवान्। प्रधानमन्त्रिणः निर्देशमनुसृत्य गृहमन्त्री अमित शाहः रात्रावेव श्रीनगरं प्राप्तवान्। सेनायाः अन्वेषणसंस्थायाश्च उन्नतस्तरीयमेलनम् आयोज्य दुरन्तविशकलनं कृतम्। आक्रमणकारिणः वृथा न विमोक्ष्यन्ते इति अमित शाहेन प्रस्तुतम्। 

  सर्वे विश्वनेतारः आक्रमणं नरहत्यां च अपलपितवन्तः। भीकरनिर्मार्जने भारतेन सह वर्तते इति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रोक्तम्।

 झार्खण्डे अष्ट मावोवादिनः निहताः। 

राञ्ची> झार्खण्डे बोकारो इत्यत्र सुरक्षासेनया सह प्रतिद्वन्द्वे अष्ट मावोवादिनः व्यापादिताः। मृतेषु विवेकः इत्याहूयमानः प्रयाग माञ्चिः    एक कोटिरूप्यकाणि शिरोमूल्यविज्ञापितः अस्ति। संघटनस्य केन्द्रियसमित्यङ्गः भवत्ययम्। अन्येषु द्वावपि मावोवादिनां मुख्यनेतारौ स्तः।

 काश्मीरे भीकराणां नरहत्या।

भुषुण्डिप्रयोगेण २६ विनोदसञ्चारिणः हताः। 

+ पुल्वामप्रकरणानन्तरं बृहत्तमम् आक्रमणम्। 

+ उत्तरदायित्वं स्वीकृत्य टि आर् एफ् इति संघटनम्। 

दुरन्तस्थानं प्रति सुरक्षाभटानां विन्यासः। 

श्रीनगरं> किञ्चित्कालविरामानन्तरं जम्मु काश्मीरे सामान्यजनान् लक्ष्यीकृत्य भीकराणाम् आक्रमणम्। ह्यः अनन्तनागजनपदस्थे पहल्गाम् इत्यत्र बैसरणं सन्द्रष्टुमागतानां विनोदसञ्चारिणां विरुध्य कृतेन भुषुण्डिप्रयोगेण २६ सामान्यजनाः निहताः। १५ जनाः क्षताः। तेषु पञ्चानामवस्था तीव्रतरा इति सूच्यते। 

  २०१९ तमे वर्षे आपन्नस्य  पुल्वामभीकराक्रमणस्य अनन्तरं भारते जायमानं बृहदाक्रमणं भवत्येतत्। मङ्गलवासरे मध्याह्नानन्तरं त्रिवादने पहल्गामतः षट् किलोमीटर् दूरे बैसरणं नामिकामधित्यकां सन्द्रष्टुं प्राप्तवतां जनान् लक्ष्यीकृत्य सैनिकवेषेण आगताः सप्त भीकराः अनिर्गलतया  भुषुण्डिप्रयोगं कृतवन्तः। 

  हताः विनोदसञ्चारिणः विविधराज्येभ्यः प्राप्तवन्तः सन्ति। केचन विदेशीयाः अपि तेषु अन्तर्भवन्तीति सूच्यते। एन् ऐ ए संस्थया प्रकरणस्य अन्वेषणं स्वीकृतम्।

Tuesday, April 22, 2025

 मार्पापावर्यस्य देहवियोगः आविश्वं दुःखसागरे। 

सेन्ट् पीटेर्स् देवालये बुधवासरे सामाजिकदर्शनम्। 


वत्तिकान सिटि> करुणार्द्रप्रेमस्य मूर्तिमद्रूपस्य, फ्रान्सिस् मार्पापावर्यस्य इहलोकवियोगे विश्वस्मिन् सर्वत्र जनाः विश्वासिसमूहश्च दुःखसागरे मग्नाः वर्तन्ते। लोकनेतारः हृदयशोकं प्रकाशितवन्तः। अनुकम्पा, विनयः, आत्मीयता इत्येतेषां प्रकाशमानमूर्तिरासीत् फ्रान्सिस् मार्पापा इति भारतप्रधानमन्त्री नरेन्द्रमोदी प्रावोचत्। 

  "फ्रान्सिस् परमेश्वरस्य धामं प्रतिनिवर्तितवान्" इति  वत्तिकानस्य हर्म्यनिदेशकेन कर्दिनाल् केविन् फेरल् इत्यनेनेन आधिकारिकतया निगदितम्। येशुदेवस्य पुनरुज्जीवनदिने [ईस्टर्], गते रविवासरे पापावर्यः सेन्ट् पीटेर्स् चत्वरे सम्मिलितान् विश्वासिजनान् अभिसम्बोधयति स्म। तदेव तस्य अन्तिमः सामाजिककार्यक्रमः। 

  बुधवासरे पापावर्यस्य भौतिकं शरीरं वत्तिक्कानस्थे सेन्ट् पीटेर्स् देवालये सामाजिकदर्शनाय स्थापयिष्यति। अन्त्यविश्रान्तिस्थानं तु सान्ता मरिया मार्जरि देवालयः भवति।

Monday, April 21, 2025

 फ्रान्सिस् मार्पापावर्यः परमधाम्नि विलयं प्राप।


वत्तिकान् सिटी> क्रिस्तीयधर्मे आगोलकत्तोलिकासभायाः परमोन्नतः आत्मीयाचार्यः फ्रान्सिस् मार्पापावर्यः नित्यतां विलयं प्राप। अद्य भारतीयसमयानुसारं मध्याह्नात्पूर्वं ११. १५ आसीत्तस्य वियोगः। ८८ वयस्कः सः कत्तोलिकासभायाः २६६ तमः मार्पापापदीयः अस्ति। 

 क्रिस्तीयधर्मे मानविकतामूल्यानुसारं परिष्करणाय प्रयतितवान्। महिलानां बालकानां चाधिकाराय सदा व्यवहृतवान्। धार्मिकसाहोदर्याय निरन्तरं प्रयत्नं कृतवान् मार्पापावर्यः मानवप्रेमस्य महनीयादर्शरूपेण वर्तमानः आसीत्।

 ट्रम्पं विरुध्य अमेरिक्कायां महान् प्रतिषेधः। 


न्यूयोर्क्> वाषिङ्टणः, न्यूयोर्क् इत्यादिनगरस्थेषु वीथिषु राष्ट्रपतिनं डोणाल्ड् ट्रम्पं विरुध्य महान् जनप्रतिषेधः प्रचलति। ५०५०१ इति कृतनामधेये अस्मिन् प्रतिषेधे सहस्रशः जनाः भागं कुर्वन्ति। ५० राज्यानि, ५० प्रतिषेधाः, एकं लक्ष्यम् इत्यर्थः कल्प्यते अस्यान्दोलनस्य। 

  कर्माचारसंस्थाभ्यः  सेवकानां विसर्जनं, देशाधिवासिनाम् अपनयनं, व्ययाकुञ्चनस्य प्रक्रमाः इत्यादयः राष्ट्रे मूल्यवर्धनस्य कारणं भविष्यतीत्याशङ्का अस्ति। 

  १७७५ एप्रिल् १९ तमे दिनाङ्के सम्पन्ने 'अमेरिकीयान्दोलनस्य' २५० तमे वार्षिकदिने - शनिवासरे- आसीदयं प्रक्षोभः आरब्धः।

 केरले विद्यालयाः जूण् द्वितीये दिनाङ्के उद्घाटयिष्यन्ते।

अनन्तपुरी> केरले सामाजिकविद्यालयाः ग्रीष्मकालीनविरामानन्तरं जूण् मासस्य द्वितीये दिनाङ्के उद्घाटयिष्यन्ते इति  शिक्षामन्त्रिणा वि शिवन्कुट्टिना प्रोक्तम्। राज्यस्तरीयं प्रवेशोत्सवम् आलप्पुषा जनपदे आयोजयिष्यति। मन्त्रिणा निगदितं यत् अस्मिन् वर्षे परिष्कृतानां पाठ्यपुस्तकानां  प्रकाशनं बुधवासरे अनन्तपुर्यां मुख्यमन्त्रिणा पिणरायि विजयेन निर्वक्ष्यति।

 अमेरिकस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतम् आगच्छति।

    अमेरिकादेशस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतदेशं प्रति आगच्छति। दिनचतुष्टयस्य भारतसंदर्शनाय सः स्वकुटुम्बसहितम् आगच्छति। अद्य प्रभाते पाळं-विमानपत्तने समागच्छन्तं तं विदेशकार्यमंत्रालयस्य अधिकारिणः स्वागतं कुर्वन्ति।

   अद्य सायं वान्सः भारतप्रधानमंत्रिणा नरेन्द्रमोदिना सह मेलिष्यति, वाणिज्य-शुल्कसम्बद्धविषयानपि च प्रमुखतया चर्चिष्यन्ति।

Sunday, April 20, 2025

 खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एसात् निगृहीतः। 

वाषिङ्टणः> पञ्चाबे विधत्तेषु बहुषु भीकराक्रमणेषु भागं कृतवान् इत्यतः भारतेन मार्ग्यमाणः खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एस् राष्ट्रात् एफ् बि ऐ इति राष्ट्रियान्वेषणसंस्थया कालिफोर्णियात एव सः निगृहीतः। तस्य निग्रहणं यू एसेन आधिकारिकतया भारतं निगदितम्।

 डेविड् हेड्ली पुनरपि परिप्रष्टव्यः  स्यात्। नवदिल्ली> मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः डेविड् कोल्मान्  हेड्ली पुनरपि एन् ऐ ए संस्थया परिपृच्छाविधेयः भविष्यति। एन् ऐ ए संस्थायाः निग्रहणे वर्तमानस्य तेहावूर राणस्य परिपृच्छायाः आधारे एव एन् ऐ ए संस्थया अयं निर्णयः कृतः। एतदर्थं यू एस् राष्ट्रस्य साह्यं भारतेन क्रियते इति सूच्यते।

 प्रधानमन्त्रिणः सौदीसन्दर्शनं २२ तमे दिनाङ्के आरप्स्यते। 

नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी एप्रिल् २२, २३ दिनाङ्कयोः सौदी अरेब्यां सन्द्रक्ष्यति। उभयोरपि राष्ट्रयोः परस्परसम्बन्धः सबलतरः भविष्यतीति विदेशकार्यसचिवेन विक्रम मिस्री इत्यनेन प्रोक्तम्। भारत-गल्फ-यूरोप् आर्थिकमध्यमार्गः, समुद्रसुरक्षा इत्यादयः विषयाः चर्चिष्यन्ते।

Saturday, April 19, 2025

 गासानिवासिनः अतिदैन्यमनुभवन्ति।

पान-भोज्य-औषध-चिकित्सालयसुविधाः विनष्टाः। 

गासा सिटी>  इस्रयेलस्य निरन्तराक्रमणेन गासामधिनिवसन्तः लक्षशः जनाः बहुक्लेशम् अनुभवन्ति। मुख्यातुरालयाः प्रायशः सर्वे बोम्बाक्रमणे विशीर्णाः। आक्रमणे क्षतेभ्यः परिचर्यासुविधा न लभते। विभवाः न लभन्ते इत्यतः भोज्यनस्तूनां दुर्भिक्षता अनुभूयते। विद्युत् संचारणसुविधाः विनष्टाः। जनावासकेन्द्रेषु इस्रयेलस्य आक्रमणम् अनुवर्तते। 

  हमासेन जनाधिवासकेन्द्राणि कवचरूपेण स्वीक्रियन्ते इति  इस्रयेलस्य आरोपः। युद्धसमाप्तये अन्ताराष्ट्रियमध्यस्थश्रमाः निर्जीवाः वर्तन्ते।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयः 

प्रधानमन्त्रिणा राष्ट्रसमर्पणं मेय् २ दिनाङ्के। 


अनन्तपुरी> केरलस्य स्वप्नाभियोजनां , विष़िञ्ञं प्रदेशस्थे समुद्रे स्थापितं वाणिज्यमहानौकाश्रयं प्रधानमन्त्री नरेन्द्रमोदी मेय्मासस्य द्वितीये दिनाङ्के राष्ट्राय समर्पयिष्यति। डिसम्बरमासे सम्पूर्णतया प्रवर्तनमारब्धस्य नौकाश्रयस्य आधिकारिकम् उद्घाटनमेव प्रधानमन्त्री निर्वक्ष्यति। 

  नौकाश्रयपरिसरे सविशेषं निर्मायमानायां वेदिकायां राष्ट्रसमर्पणकार्यक्रमाः विधास्यन्ते। जूलैमासे परीक्षणचालनं मुख्यमन्त्रिणा पिणरायि विजयेन कृतमासीत्।

 भूमिं विना ग्रहान्तरे प्राणः!

१२४ प्रकाशवर्षाध्वनि बृहत्ग्रहे प्राणोपपत्तिः।


न्यूयोर्क्> भूमिमतिक्रम्य प्राणस्पन्दनं मार्गमाणस्य मानवस्य प्रयत्ने निर्णायकाधिगमेन शास्त्रज्ञाः। भूमेः १२४ प्रकाशवर्षस्य दूरे 'लियो' इति नक्षत्रसमूहे वर्तमानः 'के २ - १८ बि' इत्यस्मिन् बृहद्ग्रहे प्राणोपपत्तेः दृढा सूचना लब्धा। 

  ब्रिटन-यू एस् गवेषकसंघ एवास्य अधिगमस्य पृष्ठतः। केवलं जैवप्रक्रियया एव सम्भूयमानस्य वायूनां सान्निध्यं तस्य ग्रहस्यान्तरिक्षे अधिगतमति प्राणानुमानाय दिशासूचकमभवत्। नासायाः शक्ततमां दूरदर्शनीं 'जयिंस् वेब्' नामकमपयुज्य आसीदयमधिगमः। 

  २०१७ तमे वर्षे कानडीयायाः शास्त्रज्ञाः चिलिराष्ट्रे बहिराकाशनिलये  स्थापितया दूरदर्शिन्या के २- १८बि इति ग्रहः अधिगतः। भूमेः ८. ६ गुणितं भारपरिमाणमस्ति। उपरितले जलमूढ्यमानं वासयोग्यं मण्डलमप्यस्तीति निगम्यते।