केरलम्।
यू डि एफ् सर्वकारस्य राज्यशासनकौशलोद्घोषणम् अद्य।
अनन्तपुरी> वि डि सतीशस्य नेतृत्वे विद्यमानस्य यू डि एफ् सर्वकारस्य प्रथमं राज्यशासनकौशलोद्घोषणं राज्यपालः राजेन्द्र आर्लेकरः शुक्रवासरे विधास्यति। बह्व्यः जनप्रियाभियोजनाः याः यू डि एफ् सख्येन निर्वाचनवाग्दानरूपेण उद्घोषिताः नयोद्घोषणे प्रतीक्षन्ते।
नयोद्घेषणे कृतज्ञताप्रकाशनपत्रम् अधिकृत्य चर्चा जूण् प्रथमदिनाङ्कतः तृतीयदिनाङ्कपर्यन्तं भविष्यति। अस्याः विधानसभायाः कार्योपदेशकसमित्याः प्रथमं मेलनं नयोद्घषणानन्तरं विधास्यति।













