OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, September 20, 2016


केरळेषु रयिल् गातागतः भग्नः।
कोल्लम् > करुनागप्पिल्ली रयिल् निस्थानस्य समीपे कल्लुकटवु परिसरे रात्रौ १२:३० वादने एव दुर्धटना। रासोर्वरकाणि वहत् यानमेव अपघाते पतितम्। गमनमार्गे रयिल् पट्टायां संभूतं छिद्रं दुर्घटनायाः कारणम् । 'पासञ्चर्' यानानां यात्रा अवसिता । केरळेषु रयिलस्य पट्टयां भग्नता दृश्यन्ते इति गतमासे जातापघातस्य कारणमन्विष्यमाणेन समितिना सूचितम् आसीत् ।

संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतेन पाकिस्तानराष्ट्रं तर्जितम्। 
भारतेन संयुक्तराष्ट्रमानवाधिकारपरिषदि  आतंकवादप्रकरणम् उत्थापितम् । जम्मू-काश्मीरे आतंक्याक्रमणे अष्टादशसैन्यकर्मिणां वीरगतेरनन्तरं भारतेन अन्ताराष्ट्रियपरिवेशे आतंकवादं विरुद्ध्य (ज़ीरो टालरेंस) इति शून्यसहिष्णुता नीतेः क्रियान्वयनम् अभियाचितम्  । परिषदः त्रयस्त्रिंशततमे सत्रे भारतेन परिषदः अध्यर्थितः यत् पाकिस्तानः निजदेशात् जायमानानं आतंकिगतिविधीनां प्रवर्तम् अथ च आतंकवादिगुल्मानां समर्थनं न कुर्यादिति ।

Monday, September 19, 2016

मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः

नव दिल्ली >केन्द्रप्रशासनेन निर्माणोद्योगं सम्वर्धयितुं सौविध्यपूर्ण-आवासान् च केन्द्रीकृत्य  मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः प्रारब्धा, इयं हि अक्टूबरमासात्  प्रभावमायास्यति।

Sunday, September 18, 2016

RN1 जम्मू-काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम्‌ -१७ सैनिकाः हताः।
  श्रीनगरम् > जम्मू-काश्मीरे उरीमण्डले सैनिककेन्द्रं प्रति भीकराक्रमणम्‌। आक्रमणे १७ सैनिकाः हताः ८ व्रणिताः च। प्रत्याक्रमणे ४ भीकराः अपि हताः। प्रातः चतुर्वादनकाले आसीत् भीकराक्रमणम्‌। आयुधधारिणः भीकराः सैनिककेन्द्रं प्रति अनुस्यूततया गोलिकाप्रहारम् अकुर्वन्। सप्तघण्टात्मकं दीर्घतमं प्रत्याक्रमणं कृत्वा सैनिकैः मण्डलस्य नियन्त्रणं प्राप्तं वर्तते। विदेशयात्रादिकम् उपेक्ष्य आभ्यन्तरसचिवः राजनाथसिंहः जम्मू-काश्मीरं संद्रक्ष्यते। देशीयमार्गस्य तथा नियन्त्रणरेखायाश्च समीपस्थः प्रदेशःभवति उरी।
स्वदेशी क्षेपणायुध-नशीकरण-महानौका सज्जा।
 मुम्बई > भारतनाविकसेनायाः शक्तिवर्धनाय अत्याधुनिकसज्जीकरणैः सह क्षेपणायुधनशीकरणक्षमा 'मोर्मुगावो' नामिका महानौका प्रवर्तनसज्जा जाता। भारतेन स्वशीया निर्मिता भवति इयं महानौका। मुंबई मध्ये अद्य प्रातः द्वादशवादने समुद्रे नाविकसेनाध्यक्षस्य सुनिल् लाम्बस्य सान्निध्ये परीक्षणतया महानौकायाः प्रवर्तनमारब्धम्। किन्तु वर्षद्वयानन्तरमेव एव मोर्मुगावो भारतनाविकसेनाया: नियन्त्रणे भविष्यति। ततः परम् ऐ एन् एस् मोर्मुगावो इत्येव महानौकेयं व्यवह्रियते।

RN2. केन्द्र-स्वास्थ्यमन्त्रिणं प्रति मशीप्रयोग:।
         भोप्पाल् > भोपाल् एयिंस् कलालये केन्द्र-आरोग्यमन्त्रिणं जे पि नड्डां प्रति छात्राणां पक्षतः मशीप्रयोग:। एयिंस् अधिकृतान्‌ सन्दर्श्य प्रतिगमनवेलायामेव वैद्यबिरुदछात्राणां प्रतिकरणम् अभवत्। एयिंस् आतुरालयस्य सौकर्यादिकं वर्धितव्यम् इति उन्नीय समरं कुर्वन्तः पञ्चाशदधिकाः छात्राः एव लेखनद्रावकप्रयोगम् अकुर्वन्।समस्यापरिहाराय चर्चां कर्तुमपि मन्त्रिणा सन्नद्धता न कृता इत्यपि छात्रैः आरोपितम्।


RN3. मोहन् एम् शान्तनगौडर् केरलस्य उच्चन्यायालयस्य अध्यक्षः। 
नवदहली >  केरलस्य उच्चन्यायालयस्य अध्यक्षस्थाने न्यायाघिपः मोहन् एम् शान्तनगौडर् महोदय : नियमितः।राष्ट्रपतिना प्रणब् मुखर्जी महोदयेन तस्य नियमनं कृतम्‌। उच्चन्यायालयस्य आक्टिङ् चीफ् जस्टिस् आसीत् मोहन् एम् शान्तनगौडर्। एतेन साकं कोल्कत्ता, सिक्कीं, त्रिपुरा, मणिप्पूर् इत्यादिषु राज्येष्वपि उच्चन्यायालयेषु अध्यक्षानां नियमनमभवत्।।

 14 गोमातरं परिगण्य गूगिलस्य आदर्श-दर्शनम्।

  लन्टन् > गूगिलस्य 'स्ट्रीट् व्यू' नाम आप् सङ्केतमुपयुज्य नगरस्य राजमार्गस्य दर्शनसमये सामान्येन मनुष्याणां मुखं द्रष्टुं न शक्यते। इदानीं मनुष्यसम-स्थान-मानानि गाम् प्रति दत्वा गूगिलः तस्य आदर्शं प्रदर्शितवान्। तस्मिन् आप्‌ मध्ये केम् ब्रिट्ज् परिसरस्थं को फैन् नामकं  पन्थानं  अन्विष्य गच्छति चेत्‌  तत्रत्याः केम् नद्याः तीरे चरन्तीं गां द्रष्टुं शक्यते। इतोऽपि उपसूक्ष्मतया   (Zoom in) वीक्ष्यते चेत्  मुखं मनुष्याणामिव अव्यक्तं भविष्यति। चित्रमिदम् इदानीं सामूहिक माध्यमेषु प्रसृतम् (virol) अभवत्। गवां व्यष्टि रूपेण लब्धः अङ्गीकारः एव अनेन प्रदर्श्यते इति बीबीसिना न्यवेदयत्। नव-सहस्राधिकैः जनैः विषयमिदं ट्विटर् द्वारा विचारितम्। द्विसहस्राधिक-लक्षं जनैः तत् स्नेहमयेन संस्थापितं च । ब्रिट्टनस्य पत्रपत्रिकाभिः गोमात्रे लब्धमानुकूल्यं साघोषं प्रकाशितम्।
(उपसर्पकं - zoom in अप ससर्पकं zoom out)
[ उपसूक्ष्म Zoom in अपसूक्ष्म zoom out] 

सौम्यावधविषये विदग्धनीतिज्ञः नियोजयिष्यते।
पालक्काट्> सौम्यावधविषये गोविन्दच्चामिनः मृत्युदण्डने निरुद्धे सर्वोच्चन्यायालये सर्वकारेण  पुनःपरिगणनाभियाचना   समर्पयिष्यति इति केरलनीतिमन्त्रिणा ए के बालन् वर्येण उक्तम्। तदर्थं विदग्धं नीतिज्ञं नियोजयिष्यति।  तथा च प्रगत्भैः व्यवहारपण्डितैः सह चर्चित्वा सौम्यायाः नीतिलब्धये यतिष्यतेति केरलानां प्रतिपालकपतिः(Advocate General) सि पि सुधाकरप्रसादःअपि न्यगादीत्। अस्मिन् प्रकरणे सर्वकारस्य पुरतः विद्यमानः एक एव मार्गः भवति पुनःपरिगणना अभियाचना।

 राष्ट्रियभक्ष्यसुरक्षाविधिः एतावत्पर्यन्तं केरल-तमिल्नाट् राज्याभ्यां न प्रतिष्ठापिता।
नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतः राष्ट्रियभक्ष्यसुरक्षानियमः केरलेन तमिलनाटुना च यावच्छीघ्रं प्रवृत्तिपथमानेतव्य इति केन्द्रभक्ष्यमन्त्रिणा राम विलासपास्वानेन निर्दिष्टम्। भारते २७ राज्येषु ७ केन्द्रशासनप्रदेशेषु च एषः नियमः प्रावर्तिकः अभवदिति सः अवदत्। भूतपूर्वेण यू पि ए सर्वकारेणैव  जनोपकारप्रदा एषा पद्धतिः २०१३ संवत्सरे आविष्कृता। केरले तु एतदर्थं संगणकयन्त्रवत्करणस्य कालविलम्बः, गुणभोक्तृृृजनानां पट्टिकाकरणे अपाकः इत्यादिभिः कारणैः पद्धत्याः प्रस्तुतिः एतावत्पर्यन्तं नाभवत्। षण्मासाभ्यन्तरे पद्धत्याः प्रतिष्ठापनं कर्तुं शक्यतेति केरलानां भक्ष्यसचिवोत्तमया मिनि आन्टणि वर्यया न्यवेदितम्।


कावेरी जल विवाद:- स्टालिन-कनिमोषियो: बन्धनम्
 बाङ्गलूरु> कर्नाटक राज्ये तमिलजनानामुपरि जातान् आक्रमणान् विरुद्ध्य तमिलनाडु राज्यस्य वणिक कृषकसंघटनैः कृतकार्यावरोधस्य प्रभाव: दृष्ट:। कार्यावरोधस्य पक्षे डीएमके-एमडीएमके-सीपीआई-सीपीएम कर्तार: मिलितवन्त:। तथापि राज्ये  शासने आरूढा: एआईएडीएमके जना: कार्यावरोधात्  पराड़्मुखाः आसन्।
      चेन्नै मध्ये डीएमके नेता एम के स्टालिनस्य नेतृत्वे राजारथीनम स्टेडियम त: एग्मोर रेल निस्थानं यावत् तस्यानुगामिनः संयुक्तप्रतिरोधप्रर्दशनम् उद्दिष्टिवन्तः। तत्रैव कनिमोषि बन्धिता तस्या: याचना वर्तते कावेरी जलविषये सर्वदलीयसभा भवतु इति।   

Saturday, September 17, 2016

मुख्यमन्त्रिणा सह द्विचत्वारिंशत् (४२)सामाजिकाः दलं त्यक्तवन्तः , अरुणाचलप्रदेशे कोण्ग्रस् दलस्य शासनं विनष्टम्। 
इट्टानगरम् > अरुणाचलप्रदेशराज्ये मुख्यमन्त्रिणः पेम खण्डोः नेतृत्वे त्रिचत्वारिंशत् विधानसभासामाजिकाः कोण्ग्रस्दलं त्यक्त्वा पीपिल्स् पार्टी आफ् अरुणाचलप्रदेश् नामकं राजनैतिकदलं प्राप्तवन्तः। अखिलभारतीयकोण्ग्रस् दलस्य महान् आघातः भवत्ययं विषयः। केवलं भूतपूर्वमुख्यमन्त्री नबां तुक्की कोण्ग्रस् दले अवशिष्टः एकः सामाजिकः।

Friday, September 16, 2016

 मानव-संसाधन-विकास-मन्त्रालयेन एक-दिवसीया परिचर्चा-संगोष्ठी
नवदेहली >राष्ट्रिय-पुस्तक-न्यासेन, मानव-संसाधन-विकास-मन्त्रालयेन, इण्डिया-एक्सपो-सेन्टर- इत्यनेन च संभूय एक-दिवसीया परिचर्चा-संगोष्ठी १६-सितम्बरे ग्रेटरनोएडा-स्थले आयोजिता । "संस्कृतभाषा भारतीय-संस्कृति: च" इति विषयाधृताया: संगोष्ठ्या: अध्यक्ष-पदं आचार्येण डॉ.रवीन्द्रनागरेण अलंकृतम् । न्यासनिदेशिका डॉ.रीता-चौधरी एतादृश्या: संगोष्ठ्या: आयोजन-प्रासंगिकत्वं ख्यापितवती। डॉ.बलराम-शुक्ल: डॉ.मनोजकुमारमिश्र: च संस्कृति-संस्कृतयो: इतिहास-प्रभाव-परम्परादि-विश्लेषण-पुरस्सरं विषयमेनं परिशीलितवन्तौ । डॉ.बलदेवानन्द-सागर: स्वीय-सुदीर्घानुभवान् विवर्णयन् संस्कृतस्य ध्वनि-विज्ञानात्मकं स्वरूपम् उपस्थापितवान् । गुजरातीभाषाया: सुख्यात: लेखक: श्रीभाग्येन्द्रपटेल: अस्य सुमहत:  सारस्वतानुष्ठानस्य संयोजनदायित्वं निरवहत्।
September 16- अद्य सम्प्रतिवार्तायाः जन्मदिनम्
www.samprativartah.in
samprativartah@gmail.com
WhatsApp-9400417084
काश्मीर् सन्दर्शनम् आवश्यकमिति यू एन् मानवाधिकारसमितिः , नेति भारतम्। 

जनीव >जम्मु काश्मीरे इदानींतनसंघर्षस्थितेः पश्चात्तले तत्र सन्दर्शनाय अनुमतिः दातव्येति ऐक्यराष्ट्रमानवाधिकारसमित्याः निर्देशः भारतेन निरस्तः। काश्मीरे संघर्षः पाकिस्तानस्य सृष्टिरिति भारतेन प्रत्युदीरितम्।
        किन्तु पाकिस्तानस्य बलूचिस्ताने प्रचलितं मनुष्याधिकारलंघनं भारतेन समित्याम् उन्नीतम्। पाक् अधीने काश्मीरे जनाः महत्पारतन्त्र्यम् अनुभवन्तीति भारतेनोक्तम्। तथा च भारताधीनकाश्मीर इति पाकिस्तानस्य परामर्शमपि भारतं रूक्षया भाषया व्यमर्शयत्। काश्मीरः भारतस्य अविभाज्यघटक इति भारतेनोक्तम्।

सौम्यावधः - गोविन्दच्चामिनः मृत्युदण्डः निरुद्धः। 
नवदिल्ली > २०११तमे संवत्सरे रेल् याने अतिनिष्ठुरतया बलात्कारेण पीडितायाः अनन्तरं मृत्युं प्राप्तायाः सौम्यायाः हत्याविषये  अपराधिनः गोविन्दच्चामी इत्यस्य मृत्युदण्डः  सर्वोच्चन्यायालयेन निरुद्धः। बलात्कारापराधाय उच्चन्यायालयेन विहितः जीवनपर्यन्तं  कारागारवासः सर्वोच्चनीतिपीठेनापि साधूकृतः।
    अपराधारोपितेनैव हननं कृतमिति उपपादयितुं सर्वकाराभिभाषकेण न साधितमिति त्रयाङ्गनीतिपीठेन निरीक्षितम्।

Thursday, September 15, 2016

भीकरान् विरुध्य- भारत-अफ्गानयोः सन्धि:।
 नवदेहली > भारतस्य प्रधानमन्त्रिणा मोदिवर्येण सह अफ्गानस्य राष्ट्रपतिना अषरफ् गनिना कृतायां चर्चायामेव अयं निश्चयः जातः। भीकरान् विरुध्य प्रवर्तनानि संयुक्ततया आयोजयतुमेव निश्चितवन्तौ । भीकराणां संरक्षणं आतङ्कवादिनां पोषणं च ये कुर्वन्तः सन्ति ते प्रतिनिवर्तनीयाः इति नेतारौ प्रचोदितौ। प्राथमिकसौविध्यविकासः, स्वास्थ्यं, कृषिः, ऊर्जं, शिक्षा, स्त्रीशक्तीकरणम् एतेषु विषयेषु अफ्गानेन सह भारतस्य साह्यम् उक्तवान् मोदिवर्यः।

अधित्यकायाम् अशान्तिः अनुवर्तते।
श्रीनगरं > जम्मु-काश्मीरे जनसञ्चय-रक्षिपुरुषवृन्दयोः संघर्षे लाघवं न जातम्। तयोर्मिथः संग्रामे पुरुषद्वयं मृतम्।अनेन सार्धैकमासाभ्यन्तरे सुरक्षासेनया सह संघर्षे हतानां संख्या ७८ अभवत्। इदानीं  नैकेषु जनपदेषु निरोधनाज्ञा प्रख्यापिता।

 केरळतःअप्रत्यक्षाः ऐ एस् प्राप्तवन्तः- ऐ एन् ए स्थिरीकरणम्।
नवदिल्ली > गतजूण् मासे केरलतः अप्रत्यक्षाः २२ जनाः इस्लामिक् स्टेट् नामिकायाः भीकरसंस्थायाः अफ्गानिस्थानस्थं शक्तिकेन्द्रं  प्राप्तवन्तः इति ऐ एन् ए संस्थया स्थिरीकृतम्। इरान् मार्गेण एव ते अफ्गानिस्थानं प्रापयन्नित्यपि स्पष्टीकृतम्।
      ऐ एस् बन्धमारोप्य यास्मिन् मुहम्मद् साहिद् नामिका युवती मासैकस्मात् पूर्वं गृहीत्री आसीत्। एतां प्रति कृतेन परिपृच्छनेनैव तेषाम् अफ्गानिस्थानप्राप्तिः स्पष्टीकृता।

Wednesday, September 14, 2016

 अखिले विश्वे केरळाः श्रावणमहोत्सवः आघुष्यन्ते।

अनन्तपुरी>अद्य केरळानां श्रावण महोत्सवः। विश्वस्य कोणे कोणे केरळाः श्रावण-सग्ध्या सह केरळैः अयं महोत्सवः आघुष्यते। नूतनानि वस्त्राणि धृत्‍वा परम्परानुसारेण अनुष्ठानेन च महोत्‍सवं अविस्मरणं कुर्वन्ति। पुराणप्रसिद्धः महाबलिः नाम असुर चक्रवर्ती केरळानपालयत्। सः झदा नीं प्रतिसंवत्सरं स्वप्रजां द्रष्टुम् आच्छति इति जनानां विश्वासः।

  
 विश्वस्य प्रथमं शीर्षसन्निवेशनशस्त्रक्रिया आगामीसंवत्सरे।
न्यूयोर्क्> भुवनस्य प्रप्रथमायै शिरस्सन्निवेशनशस्त्रविद्यायै उन्मुखः भवति, इट्टलीयः नाडीव्यूहशल्यतन्त्रज्ञः (Neurosurgeon) डो. सर्जियो कनावरो। रष्यादेशीयः वलेरी स्फिरिदोनोव् नामकः स्वस्य शिरस्स्थानान्तरणाय सन्नद्धः वर्तते। सङ्गणकयन्त्र-कार्यक्रमविदग्धः (computer programmer) वलेरी "वेर्डिङ् होफ्मान्" इत्याख्येन जनितकरोगेण पीडितः अस्ति। शरीरस्य स्नायवः नाडीकोशाश्च विनश्यन्तः रोगः भवत्येषः। चक्रासन्दमाश्रित्य जीवनं कुर्वतः  तस्य शरीरम् अनुदिनं शुष्यते च। एवं स्थिते स्वशरीरं  निष्कास्य शरीरान्तरस्वीकरणमेव  करणीयमिति तस्य अभिमतम्। मस्तिष्कमरणभूतस्य कस्यचन शरीरे वलेरी स्फिरिदनोवस्य उत्तमाङ्गस्य संस्थापनमेव लक्ष्यम्। एतदर्थं वलेरीशिरोनुयुक्तं शीर्षान्तरम् आवश्यकमस्ति।
      शिरःच्छेदनाय सुतार्या वज्रछुरिका उपयुज्येत।शीर्षसंस्थापनाय सविशेषं बकयन्त्रं , सुषुम्नानाडीनां पुनरेकीकरणाय पोलि एत्लिन् नामकवस्तु, सुषुम्नायाः नाडीव्यूहस्य च प्रवर्तनसुस्थितये इलक्ट्रोड् नामकसूक्ष्मवस्तुविशेषाः च उपयुज्येरन्। शस्त्रक्रियानन्तरं त्रि-चत्वारसाप्ताहिकेषु जीवच्छवरूपेण वर्तेत।शस्त्रक्रियायाः प्रतिशतं नवतिः विजयसाध्यता  डॉ.कनावेरोवर्येण कल्प्यते।

 सीरियादेशे संघर्षविरामः पुनरारब्धः

 सीरियायां  संघर्षविरामः पुनः प्रारब्धः, रष्या-अमेरिकाभ्यां साहमत्यानन्तरं  48 अष्टचत्वारिंशत् घण्टावधिकस्य संघर्षविरामस्य प्रारम्भः अभवत्, अस्योद्देश्यं  सीरियायां राजनैतिकसंकटस्य  समाधानं विद्यते।

सुषमास्वराज-दमित्रीरोगोजिनयोः मेलनम्

 रष्यायाः उपप्रधानमन्त्री दमित्रीरोगोजिनः  विदेशमंत्रीणं सुषमास्वराजं अमिलत् ,संभाषणं च समाचरत्। संभाषणेsस्मिन् विनिर्णीतं यत् भारत-रूसौ प्राविधिक- आर्थिकसहयोग-अंतरप्रशासन- आयोगस्य द्वाविंश सत्रस्य नेतृत्वं करिष्यतः। रष्यायाः राष्ट्रपतिः पुतिनः ब्रिक्सशिखरसम्मेलनाय अक्तूबरमासे भारतयात्रां करिष्यति।

 कावेरी जलविवादप्रकरणे कर्नाटकप्रशासनेन प्रधानमंत्रिणः हस्तक्षेपः अभियाचितः |
बेंग्लुरू> बेंग्लुरू नगरे मन्त्रिमण्डलस्य आपदुपवेशनानन्तरम् मुख्यमंत्री सिद्धरमय्य: घोषणेयं कृतवान् यत् राज्यप्रशासनं उच्चतमन्यायालयस्य निर्देशान् पालयिष्यति , अपि च  विधिव्यवस्थायाः उल्लंघनकर्तृन् विरुद्ध्य कार्याचरणं करिष्यति । प्रधानमंत्री नरेंद्रमोदी शांतिसंधारणाय तमिलनाडू- कर्नाटकयोः जनान् अध्यार्थयत्।  हिंसाचरणे दुःखम् प्रकटयन् अवोचत् यत् हिंसा कस्यापि समस्याया: समाधानं नैवास्ति केन्द्रीयसूचनाप्रसारणमंत्री एम वेंकैयानायडू वार्ताप्रसारणकाले  संयम निर्वहणाय निरदिशत्। बेंगलुरूनगरस्य कतिचित् स्थलेषु संचाररोधादेशः प्रवृत्तः। केंद्रप्रशासनेन तमिलनाडु कर्नाटकाभ्यां शांतिव्यवस्थायै यथासंभवसाहाय्यं समाश्वासितम्  अपि च कर्नाटके आरएएफ इति  विशेषापराधनिरोधीअर्धसैनिकबलं सन्नद्धम्

Tuesday, September 13, 2016

वार्तामुक्तकानिl
चण्डीगढ् > हरियाणा मुख्यमन्णः मनोहरलाल खट्टरस्य सुरक्षाभटः भुषुण्डिशुचीकरणमध्ये गोलकास्त्रेण आहतः।
लख्नौ >यू एस्- भारतयोः संयुक्तसैनिकाभ्यासः श्वः उत्तराखण्डे आरभ्यते। द्विसप्ताहकात्मके परिशीलने पञ्चशतं सैनिकाः भागभागित्वं वहन्ति।
लख्नौ >भ्रष्टाचारारोपणमनुसृत्य उत्तरप्रदेशे द्वौ मन्त्रिणौ मुख्यमन्त्रिणा अखिलेष् यादवेन निष्कासितौ। खनिविभागस्य गायत्री प्रजापतिः, पञ्चायत् राज् विभागस्यराजकिशोरः इत्येतौ एव निष्सितौ।
प्रोफ. जि.गङ्गाधरन् नायर् आद्रियते।
कोच्ची> संस्कृतभाषापण्डितः विश्वसंस्कृतप्रतिष्ठानस्य भूतपूर्वाध्यक्षः प्रोफ. जि. गङ्गाधरन् नायर् वर्याय शिष्यसमूहस्य संस्कृतानुरागिणां च "सप्ततिप्रणामः"।कालटी संस्कृतविश्वविद्यालयस्य सिन्डिकेट् सदस्यः, सम्प्रतिवार्तायाः मुख्योपदेष्टारेषु अन्यतमः गङ्गाधरमहोदयः सप्ततिं प्रविशन्नस्ति! ओक्टोबर् द्वितीये दिने तृप्पूणित्तुरा लायं कूत्तम्पलाड्कणे विश्वसंस्कृतप्रतिष्ठानस्य तथा अमृतभारति विद्यापीठस्य च नेतृत्वे संस्कृताध्यापक-विद्यार्थिसंगमः भविष्यति। सांस्कृतिककार्यक्रमाश्च भविष्यन्ति।
       एतदर्थं वाष़ूर् आश्रममठाधिपतिनः प्रज्ञानन्दतीर्थपादस्वामिनः मुख्यरक्षाकर्तृत्वे १०१ संख्यात्मकः स्वागतसङ्घः रूपवत्कृतः।

तमिष् राज्यजनानां संरक्षणमुद्दिश्य कर्णाटक- मुख्यमन्त्रिणे जयललितायाः लेखम्।
चेन्नै > कर्णाटकराज्यस्य मुख्यमन्त्रिणे सिद्ध रामय्यायै लेखं प्रेषितवती। तमिष़जनाः वृथामर्दिताः भवन्तिन्ति इति तया आरोपितः। द्वयोः राज्य योः मुख्यमन्त्रिभ्यां सह केन्द्र-अभ्यन्त्र मन्त्री राजनाथ सिंहः दूरवाणी द्वारा चर्चामकरोतत् कावेरी नदीजल विषये कर्णाटक राज्ये आक्रमणानि जायमानानि सन्ति। तमिष़् राज्ये पञ्चीकृतयानानि अग्निसात्कुर्वन्ति। तमिष़् जनानां आपणेषु च आक्रमणमकुर्वन् । केन्द्रसर्वकारः संघर्षमण्डलेषु सेनां विन्यस्य सुस्थितये यत्नं कुर्वन्नस्ति।
कावेरिविषये कर्णाटके कलापः, भुषुण्डिप्रयोगे एको हतः। 
बंगलुरु - कावेरीनदीजलं तमिल् नाट् राज्याय निर्गमयितव्यम् इति सर्वोच्चन्यायालयस्य आदेशं विरुध्य कर्णाटके सम्पन्नं हट्टतालमनुबन्ध्य कलापः समजायत। कलापकारिणः तमिल् नाट् राज्यस्थस्य के पि एन् ट्रावल्स्, एस् आर् एस् ट्रावल्स्  नामकस्थापनयोः  उपशतं बस्यानानि अग्निसात्कृतवन्तः। प्रक्षोभकारिणः निर्मार्जयितुं आरक्षकैः कृते भुषुण्डिप्रयोगे एकः  मृतः। कर्णाटकमुख्यमन्त्रिणः सिद्धरामय्यस्य गृहं प्रति अक्रमः जातः!

Monday, September 12, 2016


संस्कृतबालसाहित्ये जायन्ते नवकुसुमानि - बलदेवानन्दसागरः
नवदेहली> संस्कृतसाहित्यं तथा बालसाहित्यम् अपि इदानीं वर्धमानं भवतः इति वरिष्ठ-संस्कृतवार्ता- प्रवाचकेन बलदेवानन्दसासागरेण उक्तम्।   श्री अरबिन्दो फ़ौन्टेशन्  द्वारा आयोजितायां संगोष्ठयां अतिथि भाषणं कुर्वन् आसीत्  सागरमहोदयः। राष्ट्रिय-संस्कृत-संस्थानस्य कुलपतिः डा. पि एन् शास्त्री वरिष्ठ: अतिथिः आसीत्। संपूर्णानन्द विश्वविद्यालयस्य भूतपूर्वकुलपतिः डा. अभिराजराजेन्द्रमिश्र महोदयः मुख्य भाषणम् अकरोत्। बालसाहितयस्य वर्धनं संस्कृतभाषायाः सुखबोधाय भविष्यति इति मुख्यभाषणे महोदयः अवदत्। अस्मिन् अन्तर्जालयुगे अपि बालकाः कथाश्रवणाय गानश्रवणाय च उत्सुकाः अतः संस्कृतभाषायामपि कथा-कविता श्रवणसन्दर्भः अस्माभिः करणीयः इति महर्षि वाल्मीकि कलाशालायाः प्राध्यापकः डा. प्रभाज्योत् कुलकर्णी महाभागेन उक्तम्। राष्ट्रिय-संस्कृतसंस्थानस्य भूतपूर्व कुलपतिः  राधावल्ल्भ् त्रिपाठी च स्वकीय भाषणे समाजस्य सुस्थितये संस्कृतभाषायाः तथा बालसाहित्यस्य आवश्यकताम् अधिकृत्य सूचितवान्।

 काश्मीर् अशान्तः - संघट्टने सप्त भीकराः एकः रक्षिपुरुषश्च हताः।
श्रीनगरम् > जम्मुकाश्मीरे पूञ्च् प्रदेशे सुरक्षासेनया त्रयः भीकराः हताः। संघट्टने एकः सुरक्षाभटः अपि मृत्युमुपगतः। कुप्वारा जनपदे नौगं भागे अतिक्रम्य प्रविष्टाः चत्वारःभीकराः सैन्येन निहताः। पूञ्च् आक्रमणस्य पश्चात् पाकिस्तानः इति काश्मीरस्य उपमुख्यमन्त्री निर्मल सिंहः आरोपितवान्।

 भारतीय-माहम्मदीयानां प्रमुखः जाकिरः वा ?- वेंकैया
 नवदेहली> विवादास्पदस्य  इस्लामिकप्रचारकस्य  जाकिरनाइकस्य प्रशासनविरूद्धापराधान् अपसारयन्  वेंकैयानायिडूना साश्चर्यमुक्तं यत् धर्मस्य आश्रयमवाप्य किमसौ जाकिरनाइकः भारतीय माहम्मदीयानां प्रमुखः विद्यते। मुम्बय्यां शनिवासरे चतुष्पृष्ठात्मकं मुक्तपत्रं विलिख्य नाइटुना पृष्टमासीत् यत् आतंकवादस्य उपादानमधिगन्तुं तेन किम् कृतम्, आत्मानं विरुद्ध्य प्रख्यापितानामारोपाणां तार्किकमुत्तरं तेन अभियाचितम्। नाइकस्य  आरोपेषु आपत्तिं विदधानः नायडू अवदत् यत् जनाः  अपराधान् विधाय धर्म-जाति- क्षेत्र- भाषेत्येषाम आश्रये अधिगच्छन्ति येन  समर्थनम् अधिगच्छेयुः।

 स्टेनिलासवावरिंका यू एस् ओप्पेण् स्पर्धायां पुरुषद्वन्द्वे विजीतः, 
पुरुषाणां कृते एकान्तिमविजेता यू एस् ओप्पण् इत्यस्यां स्पर्धायां स्टेनिलासवावरिंका अनेन अन्तिमचक्रे  विगतवर्षस्य विजेता विश्वमानांके प्रथमस्थानभाजनीभूतश्च नोवाकजोकोविचः निर्णायकद्वन्दवे  6-7,6-4,7-5,6-3 अंकैः पराजितः।

Sunday, September 11, 2016

 ऐ एस् भीकरदलं विरुद्ध्य रष्य- अमेरिक्क्योः सख्यः।
 जनीव> सिरियायाः इस्लामिक भीकरान् विरुद्धयसंयुक्त समराय अमेरिका-रष्यायोः मिथः सख्य व्यवस्था अङ्गीकृता। इस्लामिक् स्टेट्‌, अल् ख्वैद, अल् नुस्र प्रभृतीनां दलानाम् उपरि युयोद्धुं व्योमाक्रमणानि संयुक्तया आयोक्ष्यन्ते।यू एस्‌ विदेश कार्य सेक्रटरी जोण् केरि रष्यायाः विदेश कार्यमन्त्री सेर्जी लाव् रोव् च मिथः जनीवायां कृतायां चर्चायामेव निश्चयः जातः। शत्रुतां विस्मृत्य सोमवासरात् आरभ्य संयुक्त प्रवर्तनस्य आरम्भः भविष्यति इति ताभ्यां प्रख्यापितौ।
२.९ लक्षं जनानां मृत्यूनां तथा जनसंख्यायाः अर्ध भागस्य पलायनस्य कारणभूतः आभ्यन्तरयुद्धस्य च अनेन परिसमाप्तिः भविष्यति। अत्र पञ्च वर्षाणि यावत् आभ्यन्तर कलहः आसीत्।


पारालम्पिक्स् क्रीडायां भारताय सुवर्णपतकम्।

रियो डि जनीरो> ओलिम्पिक्स् समाप्य सप्ताहत्रयानन्तरं रियोमध्ये भारतस्य देशीयगीतं श्रुतम्। न्यूनाङ्गकानां विश्वकायिकमेलायां पारालम्पिक्स् नामिकायां क्रीडायां उत्कूर्दने - हैजम्प् - सुवर्णपतकेन तमिल् नाट् देशीयः मारियप्पन् तङ्कवेलुः भारतस्य अभिमानतारकः अभवत्। पादैकस्य वीर्ये १.८९मी. उत्कूर्दनं कृत्वैव मारियप्पः चरित्रलब्धिं प्राप्तवान्। पारालम्पिक्स् मध्ये सुवर्णपतकप्राप्तः प्रथमः भारतीयः भवति मारियप्पः। उत्तरप्रदेशीयः वरुण सिंहभाट्टी अस्मिन्नर्थे एव कांस्यपतकं प्राप्तवान्।
अद्य अरफा सङ्गमः। 
अरफा >हज्ज् तीर्थाटनस्य श्रेष्ठाचारः अरफासङ्गमः अद्य सम्पद्यते। विंशति लक्षं तीर्थाटकाः एतदर्थं मिनाय् स्थाने सम्मिलन्तः सन्ति।
    हज्ज् तीर्थाटनस्य अात्मा इति अरफासंगमः विशिष्यते। अतः  हज्ज् तीर्थाटनाय प्राप्तान् सर्वान् जनान् अरफां सम्प्रापयितुं अधिकारिणः प्रयत्नं कुर्वन्ति।
  अरफासंगमस्य परेद्युः एव मिनायां जंरा स्थाने प्रसिद्धं पाषाणविक्षेपणं ‌प्रचलति।

Saturday, September 10, 2016

 पाकिस्थानं भीकरतायै अनुकूलराष्ट्म् - यू एस् सेनट्
वाषिङ्‌टण् > राष्ट्रान्तर मण्डलेषु पाकिस्थानं भीकरराष्ट्म्  इति भारतस्य उक्तिः सत्यमिति अङ्गीकृत्य यू एस्‌ सेनट् मध्ये परामर्शः अभवत्। पाकिस्थानम्  आतङ्गवादिनम् उपयुज्य अफ्‌गानिस्थानस्थान् अमेरिकायाः सैनिकान् मारयन्ति तथा अमेरिकायाः धनं भीकरान् प्रतीरोद्धुम् इति व्याजेन स्वीकरोति च । सेनट् अङ्गाः एवं वदन्ति।यदा भीकरान् प्रति आक्रमणंभविष्यति तदा तेषां कृते पाकिस्थानदेशो वैद्यसाह्यं लभते इति रिप्पब्ब्लिक्कन् सेनट् अङ्गः बोब् कोक्करः अवदत्। पाकिस्थानस्य सुरक्षायां लसन्तः 'हखानि भीकराः' एव सैनिकानां वधे अति तत्पराः इति च सः अवदत्।

आन्ध्राप्रदेशे उष्णतरङ्गेण  ७२३ मरणानि।
हैदराबाद् > गतेषु चतुर्षु मासेषु  आन्ध्राप्रदेशराज्ये उष्णतरङ्गेन मृतानां सङ्ख्या ७२३ अभवदिति सर्वकारेण निगदितम्।उपमुख्यमन्त्री एन् चिनराजप्पः विधानसभां न्यवेदयदमुं वृत्तान्तम्। गतसंवत्सरे अस्मिन् विषये मरणसंख्या १३६९ आसीत्।

Friday, September 9, 2016

विक्षेपणे विजयपथं प्राप्तम् 
भारतस्य इन् साट् 3डिआर् -ISRO
भारतस्य नूतनम् उपग्रहं भ्रमणपथं प्राप्तं- स्वाभिमानस्य निमिषः

 दिल्ली विधानसभाविशेषसत्राह्वानम्  उद्देश्यरहितम्  - अजयमाकनः
दिल्ली>दिल्लीप्रदेशस्य कांग्रेसदलाध्यक्षेण अजयमाकनेन पत्रं विलिख्य दिल्लीविधानसभाध्यक्षः अध्यर्थितः यत् यावत न्यायालयीयो निर्णयः नैवायाति तावत्  आपदलस्य विवादितप्रकरणेषु संलिप्तानां सांसदानां विधानसभासत्रे सहभागं मा भवेत्। अपि च तेनोक्तं  प्रथमोsयमवसरः यदा उद्देश्यं विहाय विधानसभाविशेषसत्राह्वानं क्रियते। दिल्ली प्रशासनम् आलोचयन् असौ अवदत यत् डेंगू चिकनगुनिया मलेरिया इत्येतादृशरोगप्रभाविते काले केजरीवालस्य अनुपस्थितिः  चिन्ताकरी  वर्तते ।

दिल्लीविश्वविद्यालये छात्रसंघनिर्वाचनेषु एन-एस-यू-आईएबीवीपी इत्यनयोर्मिथः संघर्षः
दिल्ली>श्वः नवदिल्ल्यां दिल्लीविश्वविद्यालयस्य छात्रसंघनिर्वाचने साफल्यमधिगन्तुम्  एकाजनसभासमायोजिता। यस्यां कॉग्रेसदलस्य अजयमाकनः मुकुलवासनिकः आस्करफर्नाडीजः एन-एस-यू-आई समवायस्य राष्ट्रियाध्यक्षा अम्रिताधवनः सज्जनकुमारश्च जनसभां सम्बोधितवन्तः। स्वीयसम्बोधने अजयमाकनेन केन्दप्ररशासनं कट्वालोचितम्।
सभायाः संयोजकः जगप्रवेशकुमारः समेषामाह्वानां कृतवान् यत् विश्वविद्यालयस्य निर्वाचनेषु भूरिसंख्यायां मतदानं कुर्वन्त्विति।

उच्चतरन्यायालयेन कठोरः आदेशः दत्तः
उच्चतरन्यायालयेन सुपरटेक संस्थां प्रति आदेशः दत्तः यत् भवन्तः जलसमाधीं स्वीकुर्वन्तु अथवा मरणं प्राप्नुवन्तु अस्माकं कः छेदः, गृहक्रेतृणां  (होम बायर्स) धनं प्रत्यर्पणीयमेव भवति-

नवदेहली>उच्चतमन्यायालयेन मंगलवासरे “रियल एस्टेड देवलपर सुपरटेक” इत्यस्य “नोएडा एक्सप्रेस-वे” मध्ये निर्मिते “एमेराल्ड कोर्ट” विषये कठोरः आदेशः दत्तः। 17 गृहक्रेतृभिः निवेशार्थं कृताधारभूतं धनंप्रत्यर्पयितुम् सन्धि व्यवस्ता हस्ताङ्गनसमये निर्माणाधिकारिभिः उक्ता आसीत् - सुपरटेकसंस्थाजनाः जलसमाधीं स्वीकुर्वन्तु अथवा मरणं प्राप्नुवन्तु परञ्च गृहाय निवेशकृतजनानां धनं तु प्रत्यर्पणीयमेव भवति।
उच्चतमन्यायालयेन किमर्थं कठोरदृष्टिः स्वीकृता ?
न्यायाधीशयोः दीपकमिश्रा-आदर्शकुमारगोयलयोः मार्गदर्शने संघटितसमितिजनैः उक्तम् - वयं भवतां आर्थिकी संस्थिति: विषये नास्तयस्माकं समस्या। कतिपयदिनेभ्यः प्रागैव गृहनिर्माणकर्तॄजनैः उक्तमासीत् यत् तेषां पार्श्वे बायर्स जनानां कृते प्रत्यर्पयितुं धनं नास्ति इति। सुपरटैक जनैः अपि उक्तमासीत् यत् भवनस्य कंस्ट्रक्शनकार्यं पूर्णं जातमस्ति।
सुपरटेक इत्यस्य 628 तः 274 गृहक्रेतारः  जनाः तत्समानामन्यां व्यवस्तां याचितवन्तः। 74 जनैः पुनः इन्वेस्टमेंट कृते व्यवस्थां कल्पयितुं याचनाकृता अस्ति। 108 जनैः धनतमप्रत्यर्पणस्य (रिफंड) कृते याचना कृतासीत्। न्यायाधीशैः सुपरटेक संस्थायाः अधिवक्तायाः कृते पृष्टं यत् धनं किमर्थं भवन्तः न प्रत्यर्पयन्ति। न्यायसमितिजनाः उक्तवन्तः चतुर्थसप्ताहाभ्यन्तरे 2015 तः इदानीं पर्यन्तं प्रिंसिपल अमाउंट मध्ये 10% अनुसारेण 17 वायर्स जनानां धनं प्रत्यर्पयन्तु इति।
पण्यवस्तु-सेवनकरविधेयकस्य राष्ट्रपतेः अङ्गीकारः। 
नवदिल्ली - स्वतन्त्रभारतस्य बृहत्तमकरपरिष्करणार्थं केन्द्रसर्वकारेण आनीतं पण्यवस्तु - सेवनकरस्य (जि एस् टि) विधेयकस्य राष्ट्रपतेः अङ्गीकारः लब्धः।
        शासनघटना संशोधनदेयकमित्यतः  राज्येषु अर्धाधिकानां संख्यकानाम् अंगीकारः आवश्यकः आसीत्। १७ राज्यानाम् अनुमतिः लब्धा!
 प्राशासनिकसेवासु दिव्याङ्गजनानां CUT OF इति अहर्ताप्रतिशतांकेपचितिः भविष्यति -झारखण्डस्य मुख्यमन्त्री रघुवरदासः

झारखण्डे सुगम्यभारताभियानमालक्ष्य मंगलवासरे समायोजितायां  जागरूकताकार्यशालायां मुख्यमन्त्रिणा रधुवरदासेन राज्यस्य सप्तलक्ष दिव्यांगजनान् मुख्यधारया सह संयोजनदिशायां पदक्षेपो विहितः, यस्यान्तर्गतं प्राशासनिक सेवाषु  दिव्यांगजनेभ्यः प्रतिशतं त्रयन्मितमारक्षणव्यवस्था वर्तते । तेन  संकेतितं यत् यदि कश्चन अनुसूचितजात्यनुसूचितजनजातिवर्त्यभ्यर्थि त्रिंशदंकैः सह उत्तीर्णतामेष्यति चेत् दिव्यांगेभ्यः   अर्हता प्रतिशतं दशमितं भविष्यति । अपि च सामाजिक न्यायाधिकारिता मंत्रालयस्य निर्देशे झारखंडप्रशासनेन पञ्चाशत् बाधारहितभवननिर्माणसूचिरपि प्रेषिता । राज्ये प्राशासनिक भवनानि डीपीआर इति दिव्यांगानां  सौविध्यानुगुणं निर्मास्यन्ते । दिव्यांगजनानां जीवने हर्षावाप्तये सुगम्यझारखंडनिर्माणाय समाजस्य दृष्टिः परिवर्तनीया इति तेन सबलं प्रतिपादितम्।देशस्य समेपि सार्वजनिक स्थलानि  दिव्यांगानां सौकर्याय भवन्त्विदमेव  सुगम्यभारतस्य परिकल्पनास्ति । अवसरेsस्मिन्  महिलाबालविकाससामाजिकसुरक्षाविभागस्य दृष्टिबाधितस्य संयुक्तसचिवस्य राजेशकुमारसिंहस्य दृष्टि नहीं, दृष्टिकोण चाहिए इति पुस्तकस्य विमोचनमपि सञ्जातम् ।

Thursday, September 8, 2016

सोपानम्-11 Ashwini M S, CRHS Kuttippuzha.
 फिलिप्पीन्स् राष्ट्रपतेः असभ्यवर्षः - ओबामा चर्चायाः निवृत्तः।
मनीला>फिलिप्पीन्स् राष्ट्रपतिः रोट्रिगो ड्यूटेर्सः अमेरिक्कादेशस्य राष्ट्रपतिं बराक् ओबामं असभ्यवर्षेण अवहेलयति स्म इत्यतः तयोः मिथः चर्चा निरस्तेति अमेरिक्कादेशस्य नयतन्त्रविभागाधिकृतैः निगदितम्।
     लावोस् मध्ये आसियान् शिखरोपवेशने तयोः मेलनं पूर्वनिश्चितमासीत्। किन्तु ओबामवर्यस्य लावोस् प्रति प्रस्थानात् पूर्वं ड्यूटेर्स् वर्यः पत्रकारसम्मिलने तेषां प्रश्नानां समाधानरूपेण ओबामम् अनिन्दत्। फिलिप्पिन्स् राष्ट्रस्य मानवाधिकारलङ्घनमधिकृत्य ओबामस्य प्रभाषणं श्रोतुम् आत्मना न सन्नद्ध इत्युक्त्वा ड्यूटेर्सः निन्दावचनेन भर्त्सयन्नासीत्।
   किन्तु ओबामं प्रति निन्दावचने परं  खेदं प्रकटितवान्।


पण्ययानस्य पथभ्रम्शेन कोङकण् मार्गे गतागतस्तम्भनम्।
मङ्गलुरु >कोङ्कणरेल् पथे अङ्कोल-गोकर्णयोर्मध्ये भाण्डकयानस्य पथविभ्रंशेन तेन मार्गेण गतागतं स्तम्भितम्।  ब्रेक् वान् नामकयानभागेन सह पण्यवस्तुसहिते द्वे प्रवहणे एव भ्रंशिते। कोङ्कण-मार्गेण गम्यमानानि कानिचित् यानानि अवलुप्तानि लक्ष्यप्राप्तिरहितानि वा कृतानीति रेल्यानाधिकृतैः उक्तम्।

व्लादिमिर् पुटिनस्य चालकः दुर्घटनायां हतः।
मोस्को >रष्यायाः राष्ट्रपतेः व्लादिमिर् पुतिनस्य औद्योगिकवाहनं दुर्घटनां प्राप्य यानचालकः हतः। पुतिनं प्रति वधोद्यम इति सन्देहः वर्तते।
       राजधान्यां मोस्कोनगरे कुटुसोव्स्कि अवन्यू इत्यस्मिन् स्थाने आसीत् दुर्घटना प्रवृत्ता। पुतिनस्य बि एम् डब्ल्यू कार् यानं प्रति अभिमुखमागतं मेर्सिडस् बन्स् कार् यानं घट्टनं कुर्वदासीत्।  तदा पुतिनः याने नासीत्। तथा च यानान्तरे अपि केवलं चालकश्च। अातुरालयं प्रविष्टः सः मृतप्रायः वर्तते।

Wednesday, September 7, 2016

भारत-चीना बन्धः - मोदी षि चिन् पिङ् महोदयौ मिथः सन्धिः स्वीकृतौ।
 हाङ्चो> भारत-चीनाराष्ट्रयोः उभयकक्षी बन्धः समीचीन दिशायाम् आनेतुं ; राष्ट्रयोः स्वाभिमान-विषयाणि परस्परं बहुमनयन् पुरोगन्तुं धारणां स्वीकृतवन्तौ। जी . २० सम्मेलनस्य मध्ये लब्धायाम् अवकाशवेलायामेव तयोयोः विशेष-मेलनमभवत्। तस्मिन् कालांशे कृतायां चर्चायामेव  ईदृशा धारणा जाता इति चीनायाः नयतन्त्रज्ञः हुवा चुनियाङ्‌ महोदयः अवदत्। गोवायाम् आरब्स्यमानः ब्रिक्स् मेलने अपि एतस्याः अनुबन्धचर्चा भविष्यति। यू एन् मेलनस्यमध्येऽपि इयं चर्चा अनुवर्तिष्यते इति चुनियाङ्‌ महोदयेन उक्तम्।
ई एस् ऐ आर्थिकायसीमा ₹ २१,०००!
नवदिल्ली > राष्ट्रस्थेभ्यः कर्मकरेभ्यः तेषां परिवारेभ्यश्च ई एस् ऐ आनुकूल्यस्य धनोदयसीमा प्रतिमासं एकविंशतिसहस्रं रूप्यकाणीति निश्चितम्! इदानीमेषा पञ्चदशसहस्रं रूप्यकाणि भवति  अयं निश्चयः पञ्चाशत् लक्षं कर्मकरेभ्यः प्रयोजकीभविष्यति! अनेन सह ई एस् ऐ भिषग्वराणां निवृत्तिवयः ६० तः ६५ इति वर्धयितुमपि निश्चितम्!

Tuesday, September 6, 2016

जी 20 सम्मेलने प्रधानमन्त्रिणा मोदिना भणितं दक्षिण एष्देशेषु एकः देशः आतङ्कवादस्य प्रवृद्धप्रवर्तनार्थं प्रयत्नं करोति।
जी 20 देशीयगोष्ट्यां अन्तिमदिने प्रधानमन्त्री नरेन्द्रमोदिना स्वसंबोधने नामोच्चारणंविनैव पाकिस्तानस्योपरि लक्ष्यं साधितम्। तैः स्पष्टरुपेणोक्तं यत् दक्षिणएशिया मध्ये एकैव देशः वर्तते यः आतङ्कवादं प्रसारयितुं सर्वत्र स्वप्रतिनिधिः प्रेषयति।तेन अन्ताराष्ट्रिय समुदायं प्रति उक्तं यत् एतादृशदेशानां पृथककरणस्य आवश्यक्ता वरीवर्ति। तेषामुपरि प्रतिबंधोऽपि स्यात्।
स्व संबोधने कृष्णधनस्योपरि तैः उक्तं यत् अस्मिन विषये सर्वकाराणाम् आचरणं कठोरं स्यात् एवञ्च स्वदेशस्योपयोगः शरणागाहरुपेण न भवेत् तदर्थं प्रयत्नं विधेयं प्रधानमन्त्रिणा एवमपि भणितं यत् विकास एवञ्च सहयोगार्थं अन्ताराष्ट्रिय मुद्राकोषेण सह निरन्तरं वार्तालापादिकं करणीयम्।
मुद्राकोषे गोपनीयता समापयितुं याचना-
प्रधानमन्त्रिणा सदस्यदेशानां कृते उक्तं यत् अधिकाधिक रूपेण मुद्राकोषे गोपनीयत्वं समापत्यर्थं प्रयतनीयम् इति। तेनोक्तं प्रभावपूर्ण वित्तीय संचालनार्थं भ्रष्टाचारसमाप्त्यर्थं च प्रयत्नं विधेयं।
IMF सह निरन्तर संवादावश्यकः-
स्वसंबोधने तैः उक्तं यत् अत्यावश्यकं वर्तते आईएमएफ् संस्थया सह निरन्तरः संवादः।बीईपीएस इत्यस्य अनुशंसायाः समर्थनपुरस्सरं सदस्य देशान् उद्दिश्य उक्तं 2017-2018 मध्ये अस्यारम्भः भवतु इति।

जम्मुकाश्मीर् - सर्वपक्षसंघस्य दौत्यं विफलम्। 

श्रीनगरम्म्मु > जम्मुकाश्मीरे शान्तिपुनःस्थापनाय केन्द्रगृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे प्रस्थितः सर्वपक्षसंघः निराशतया प्रतिनिवृत्तः। अधित्यकायां सङ्घर्षलघूकरणाय शान्तिपुनःस्थापनाय च क्रियात्मकाः निर्देशाः न समर्पिताः।
    उपत्रिंशत् संघटनान् प्रति सर्वपक्षसङ्घः  चर्चाम् अकरोत् तथापि हुरियत् संघटनस्य नेतारः सर्वपक्षसङ्घं सन्द्रष्टुं विमुखतां प्रकटितवन्तः इत्येतत् दौत्यस्य पराजयकारणम्।
मान्द्यं प्रतिरोद्धुं एकीकृतप्रयत्नः आवश्यकः - नरेन्द्रमोदी। 
हाङ्षू >विश्वेन इदानींतनकाले संमुखीकृतम् आर्थिकमान्द्यं प्रतिरोद्धुं लोकराष्ट्राणि संभूय  लक्ष्याधिष्ठितं प्रवर्तनम् आवश्यकमिति भारतप्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। चीनानगरे हाङ्षू नामके जि २० राष्ट्राणाम् उच्चकोटिसम्मेलने भाषमाण आसीत् मोदीवर्यः।
    सम्पद्व्यवस्थाम् उत्तेजयितुं मूलभूतानि परिवर्तनानि अपेक्षितानि। आभ्यन्तरोत्पादनस्य वृद्धिः, आधारसौविध्यविकसनं,  मानववैभवानां प्रकर्षः इत्यादयः आर्थिक व्यवस्थाश्रेष्ठतायै अाश्रयणीयाः मार्गाः इति प्रधानमन्त्रिणा उक्तम्।
   चीनाराष्ट्राध्यक्षेण षि जिङ् पिङ् वर्येण सम्मेलनस्य उद्घाटनं कृतम्। यू एस् प्रथमपौरः बराक् ओबामा, रष्यायाः अध्यक्षः व्लादिमिर् पुतिन् इत्यादयः प्रमुखाः राष्ट्रनेतारः सम्मेलने अस्मिन् भागभाग्त्वं कुर्वन्तः सन्ति।

सर्वत्र संस्कृततरङ्गाः
नवदिल्ली > गतदिने नवदिल्यां राष्ट्रिय-नाट्य-विद्यालयस्य द्वितीयवर्षीय छात्रै: शूद्रकप्रणीतं  मृच्छकटिकम् नाटकम् अभिनीतम्। नाटकमिदं केवलं व्यक्तिगतविषयवर्ति न विद्यते  अपितु तात्कालीन समजस्य शासनव्यवस्थायाः राज्यस्थितेश्च  ज्ञानाय महत्वपूर्णसामग्रीम्  अपि प्रकटयति। विभिन्नाभिः  भावभंगीमाभि: परिपूरितेन नाटकेन समुपस्थितानां जनानां हृदयानि आनंदेन-आप्लावितानि |

गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं
 ह्यो नवदिल्लीस्थे केरलाभवने गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं सञ्जातम् । डॉ. इंद्रा बालचंद्रनप्रणीतस्य पुस्तकस्य लोकार्पणकार्यक्रमे राज्यसभासांसदः डॉ.कर्णसिंहः ज्ञानपीठपुरस्कारसभाजितः श्री सत्यव्रतशास्त्री च समुपस्थितौ अवर्तताम् । कार्यक्रमेस्मिन् गायत्रीमंत्रस्य वैश्विकतथ्यानां विषये परिचर्चा अपि विहिता ।

Monday, September 5, 2016

गिलानी पार्श्वे मेलनार्थं गतवतां रिक्तहस्तेन पुनरागमनम्l
गृहमंत्रीराजनाथसिंहस्य नेतृत्वे श्रीनगरं प्रति गतवतः प्रतिनिधिसमूहस्य प्रवाससमये नगरे कार्याबाधः-प्रदर्शनम् च जातम्।
समाचारपत्राणां माध्यमेन ज्ञायते यदा प्रतिनिधिमंडलस्य चतुर्णां नेतॄणां दलं हुर्रियत इत्यस्य सैयद अली शाह गिलानीना सह मिलितुं गतं तदानीं तेन तैः सह मिलितुं अनिच्छा प्रकटिता।
इतः पूर्वं जम्मूकश्मीरराज्यस्य मुख्यमन्त्रीणी महबूबा मुफ्तेः वार्तालापस्य आमन्त्रणमपि अलगाववादी नेतॄणा निराकृतमासीत्। भारताधिकृतकाश्मीरे जुलाई मासे कथित हिज्जबुल मुजाहिद्दीन नायकस्य(commander)बुरहान वानेः मृत्योरनन्तरं विरोधप्रदर्शनानि जायमानानी सन्ति।प्रदर्शनकारीणां सुरक्षाबलैः सह कलहेन ६५ जनाः मृताः।सुरक्षाकैः सह शताधिकाःजनाः आहताः अस्यानन्तरं विपक्षिदलजनैः प्रदर्शनकारिणा सह वार्तालापस्याभियाचना कृता तस्य कारणेनैव राजनाथसिंहस्य आध्यक्षे दलं श्रीनगरंप्रति गतं।दृष्टिबन्ध हुर्रियत नेतृषु मिलितुं सीपीएम महासचिव सीताराम येचुरीः,सीपीआई नेता डी राजाः,जनतादल यू पक्षतः शरदयादवः,आरजेडी पक्षतः जयप्रकाशनारायणः गतः।
स्ववातायनात् सर्वदलीयप्रतिनिधिमण्डलं गिलानीः अद्राक्षीत्।परं सः मेलनार्थंनागच्छत्।
गृहमंत्री राजनाथसिंहस्य नेतृत्वे यत्र सर्वदलीयप्रतिनिधि मंडलमासीत्।तत्र समूह जनाः विभिन्न स्थानीय जनैः सह वार्तालापं कृतवन्तः।समाचारपत्राणां माध्यमेन गिलानी-मीरवाइज एवञ्च जेकेएलएफ नेता यासीनमलिकेन एकस्वरेण मुख्यमन्त्रीण्याः महबुबायाः प्रस्तावः निराकृतः।
एकस्वरेण तैः उक्तं वयं चिन्तने असफलाः जाताः।तस्य प्रतिनिधिमंडलेन सह वार्तालापेन किं सिध्द्यति?इति।

अभिषेक परगाँई
परिक्षापरिषदम् आधारपत्रेण योजनात् 
बिहार राज्यं प्रथमम् राज्यम् जातम्।

बिहारविद्यालयपरीक्षासमीतेः अध्यक्षमहोदयेन आनन्दकिशोरेण भणितं यत् परिक्षासु पारदर्शिता नेतुं तथैव वञ्चनं स्थगयितुं छात्राणां परिषद् (board)परीक्षायाः आवेदनम् आधार पत्रेण सह योजयिष्यते।अस्मिन् क्षेत्रे बिहार राज्यं प्रथमम् राज्यं अभवत।अस्यानन्तरं छात्राणां प्रमाणपत्राणां आधुनिक यन्त्रेण(डाक्यूमेंटस् डिजिटल लाकर) सह योजनं भविष्यतीति। नवम्बर् मासे भविष्यमाणमाध्यमिक(दशम)परिक्षातः एषा व्यवस्था आरप्स्यते।
- अभिषेक परगाँई, नव दिल्ली


ब्रिटेनत:(युक्तराष्ट्रतः) बहिरागमिष्येत् जापानदेशीयसंस्था ।
कोल्क्कत्ता > जापानसर्वकारः ब्रिटेनदेशं संसूचीतं यत्-ब्रेक्सिट् इत्यस्मात् कारनात् जापानदेशीयसंस्था स्वस्य प्रधानकार्यालयः ब्रिटेनतः बहिः स्थानान्तरनं करिष्यतीति। जापानदेशस्य विदेशमन्त्रालयद्वारा प्रस्तुतः एकस्मिन् वृत्ते(रिपोर्ट) कठिनशब्दैः न्यकृतम् - यदि इउरोपीयसंघस्य नियमाः ब्रिटेनमध्ये न प्रयुंक्ते तर्हि जापानदेशीयसंस्था ततः बहिरागमिष्यति इति।वृत्तेस्मिन्(रिपोर्ट)ब्रिटेनस्य टेरिजायां सर्वकारपक्षतः आवेदितं यत् ते आस्थापूर्वकं कार्यं कुर्यादीति।
बीबीसी संवाददाता  लॉरा कून्सबर्गानुसारेण वृत्तोSयं(रिपोर्ट) ब्रिटेनदेशीय प्रधानमन्त्रीणः कार्यालयतः अस्मिन् सप्ताहे प्राप्तम्। आनुमानिक ब्रिटेनमध्ये जापानीसंस्थायां प्रायः १,४०,००० कर्मकराः कार्यं कुर्वन्ति। ब्रिटेनमध्ये नोमुरावित्तकोशः,हिताची,कारयाननिर्माणसंस्था निसान तथा टोयोटा सह अन्य संस्थायाः मुख्यकार्यालयः दीप्यते।
यद्यपि वृत्तेस्मिन् संस्थायाः नामोल्लेखः न कृतं,परन्तु तत्रोक्तं यत्-वृत्तमेतद् ब्रिटेन तथा युरोपियान संघे कार्यरतः काचित् संस्थायाः अनुरोधेन् लिखितमिति।
-ओमप्रकाश पण्डा पश्चिमबंग

Sunday, September 4, 2016

अगतीनाम् अम्बा विशुद्धपदम् अरूढवती,
विश्वासिसमूहः आनन्दनिर्वृतौ।
Mother of Kolkata
वत्तिक्कान्>आभुवनं क्रैस्तवविश्वासिसमूहानां तथा लोकशान्तिम् अभिलषतां लोकसुखमिच्छतां जनानां धन्यमुहूर्तः। भुवने निरालम्बिनां मातरं तेरेसाम्बां  परिशुद्धपदमुन्नीय सेन्ट् पीटेर्स् बसलिक्का देवालयस्य चत्वरे फ्रान्सीस् मार्पाप्पा वर्यस्य विशुद्धपदप्रख्यापनेन लोकाः ईशस्य कारुण्यवर्षम् अनुभूतवन्तः।
     स्थानं सेन्ट् पीटेर्स् बसलिक्कायाः अन्तः। भारतसमयः अपराह्ने द्विवादनम्। सार्वत्रिकसभायाः परमाध्यक्षस्य परिशुद्धपितेति लोकैकवन्द्यस्य फ्रान्सिस् मार्पाप्पावर्यस्य सभाप्रवेशनेन विशुद्धनामकरणकर्माणि आरब्धानि। प्रार्थनानन्तरं कर्दिनालः आञ्चलो अमात्तोवर्यः  मदर् तेरेसां विशुद्धेति प्रख्यापयतु इति मातुः ह्रस्वजीवचरितकथनेन सह  मार्पाप्पां प्रति अभ्यर्थयत। ततः  अमात्तोवर्यस्य सहकार्मिकः फा. ब्रयाल् वर्यः इट्टलीयभाषया सर्वान्विशुद्धान् उद्दिश्य "अस्मभ्यं संप्रार्थ्यताम्" इति प्रार्थयामास!
    अनन्तरं पाप्पावर्यः  ह्रस्वैः वाक्यैः तेरेसामातरं कल्क्कत्तायाः विशुद्धतरेसा इति पुनर्नामकरणमकरोत्। तत्र सन्निहिताः लक्षशः जनाः कार्यक्रमान् सर्वान् दृश्यमाध्यमैः वीक्ष्यमाणाः सर्वे अपि प्रार्थनानिर्भरचित्तैः कृतार्थाः बभूवुः।
    ततः मातुः भौतिकावशिष्टानि मिषनरीस् आफ् चारिटि संस्थायाः अध्यक्षया सिस्टर् क्लयर् वर्यया अल्त्तारामध्ये  समर्पितानि। सार्वत्रिकसभायाः कृतज्ञताम् आञ्जलो अमात्तो वर्यः प्रकाशयामास। तथास्तु इति पाप्पावर्यस्य प्रतिवचनेन विशुद्धप्रख्यापनस्य परिसमाप्तिः।
माता तेरेसा भारतीयानां मनसि सदा विशुद्धा।
मदर् तेरेसा अद्य विशुद्धा भविष्यति। 
वत्तिक्कान् >निस्वानाम् अम्बा मदर् तेरेसा अद्य विशुद्धपदं प्राप्स्यति। वत्तिक्काने सेन्ट् पीटेर्स् देवालयस्य चत्वरे फ्रान्सिस् मार्पाप्पा वर्यस्य कार्मिकत्वे अपराह्ने द्विवादने - भारतसमयः - आरभ्यमाणे दिव्यबलिमध्ये विशुद्धनामकरणं भविष्यति। कोल्कोत्तायाः विशुद्धतेरेसा इति इतःपरं विख्याता भविष्यति।
       कार्यक्रमे भागभागित्वं वोढुं केन्द्रसर्वकारं प्रतिनिधीभूय  विदेशकार्यमन्त्रिण्याः सुषमास्वराज् वर्यायाः नेतृत्वे कश्चन संघः वत्तिक्कानं प्राप्तः। दिल्ली मुख्यमन्त्री अरविन्द केज्रिवालः वंगराज्यस्य मुख्यमन्त्रिणी ममता बनर्जी इत्येतावपि वत्तिक्कानं संप्राप्तौ।

के बाबोः भवने दक्षतावस्कन्दः। 
कोच्ची >अविहितद्रव्यसम्पादनविषये भूतपूर्वकेरलराज्यमन्त्रिणः के बाबुवर्यस्य भवने ,अपत्यानां तथा  विनामीति विवक्षितपुरुषाणां सहकारिणां  च गृहेष्वपि दक्षतासंस्थायाः आपातः (raid) सम्पन्नः। एऱणाकुलं तोटुपुष़ा इत्येतत्प्रदेशस्थयोः पञ्च वासस्थानेषु कारिते आपाते अष्टलक्षं रूप्यकाणि १८० ग्रां परिमितं सुवर्णं च परिदृष्टानि। बाबोः , तस्य पत्न्याः, अपत्यानां च पञ्च बेङ्कलेखाः च स्तोभयते स्म।
    किन्तु एतत्सर्वं राजनैतिकलक्ष्येण कृता प्रतिक्रिया इति बाबु: अवदत्।