प्रांशुकिरणः वैमानिकस्य दृष्टिः निरोधितः। विमानस्य भूस्पर्शः विलम्बितः।
कोल्कत्ता> वैमानिकस्य दृष्टिः निरोधितः इति कारणेन मलेष्यातः कोल्कत्तायामुड्डीयमानः विमानः भूस्पर्शं कर्तुं विलम्बः जातः। प्रांशु (लेसर्) किरणस्य सान्निध्यमेव वैमानिकस्य दृष्टिभङ्गस्य कारणम्। क्वाललंपूरतः कोलकत्तायामुड्डीयमानः एम् एच् १८४ नाम विमानः एव आकाशे भ्रमणं कृत्वा निर्दिष्टसमयानन्तरं विलम्बेन अवतरितः।
