रक्तदुर्गे भीकराक्रमणं
अल् खायिदा उपसंघः इति यू एन्।
यू एन्> २०२५ नवम्बर मासे नवदिल्ल्यां रक्तदुर्गे दुरापन्नस्य कार् बोम्बस्फोटनस्य पृष्ठभूमिकायाम् अल् खायिदा इति भीकरसंघटनस्य उपसंघः इति यू एन् संस्थया दृढीकृतम्।
ए क्यू ऐ एस् इति भारतीयसंघटनेन एव स्फोटनं कृतमिति संयुक्तराष्ट्रसंघटनस्य रक्षासमित्याः आवेदनपत्रे सूच्यते। कश्चन प्रादेशिकभीकरसंघः इति रूपेण प्रस्तुतसंघः विकासमुपगच्छतीति आवेदनपत्रे निरीक्षते।