NET परीक्षायामपि तालभङ्गः।
त्रिषु विषयेषु पुनः परीक्षा।
नव दिल्ली> कलालयशिक्षकाणां योग्यता परीक्षा नेट् [National Eligibility Test] इत्यस्मिन्नपि बहुदोषाः दृष्टाः इत्यतः त्रिषु विषयेषु पुनःपरीक्षां सञ्चालयितुं एन् टि ए संस्थया निश्चितम्। जूण् मासे सम्पन्नेषु ८७ विषयेषु English, Commerce, Sociology इत्येतेषु विषयेषु एव पुनःपरीक्षा विहिता।
पूर्वोक्तानां विषयानां प्रश्नपत्राणि अधिकृत्य बहवः दोषारोपाः सूचिताः। पूर्वकृतपरीक्षाभ्यः बहूनां प्रश्नानाम् आवर्तनं, अक्षन्तव्याः व्याकरणदोषाः, पण्डितानां नामसु दोषाः चिह्नेषु आशयेषु च दोषाः इत्यादयः बहवः क्रमभङ्गाः सूचिताः आसन्। अतः एषु विषयेषु पुनःपरीक्षा आवश्यकी इति एन् टि ए संस्थया रूपीकृतया समित्या निर्दिष्टा।