कोलम्बियायां भूकम्पः - शताधिकानि मरणानि। 
विशीर्णभवनेषु रक्षाप्रवर्तनं कुर्वन्तः।
बोगोट्टा> कोलम्बिया नामके दक्षिण अमेरिकीयराष्ट्रे प्रकम्पयन् बृहत्भूकम्पः। रिक्टर् मापिन्यां ७. ४ अङ्किते भूकम्पे न्यूनातिन्यूनं शतं जनाः मृताः। बहूनि भवनानि विशीर्णानि। भवनावशिष्टेषु बहवः लग्नाः वर्तन्ते।
राष्ट्रराजधानीनगरं बोगोट्टा इत्यस्मात् ४०० कि मी दूरे सोमवासरे आसीत् भूकम्पः। एक्वडोर् इति सीमाराष्ट्रे अपि भूकम्पस्य प्रकम्पनानि अनुभूतानि।