विमानस्य आकाशगर्तपतनं
वैमानिकः मादकवस्तु उपयुक्तवान्।
नव दिल्ली> आगस्ट् चतुर्थदिनाङ्के ताय्लान्टतः नव दिल्लीं आगच्छत् एयर् इन्डियायाः यात्राविमानं आकाशगर्तं पतितम् इत्यस्यां घटनायां मुख्यवैमानिकः 'मरिजुवाना' नामकं उन्मादकवस्तु उपयुक्तवान् इति परिशोधनया स्पष्टीकृतम्। १३७ यात्रिकैः सह विमानं ३०० पादमितं गर्तं नियन्त्रणं विनश्य पतितमासीत्।
विवादास्पदायां दुर्घटनायां वैमानिकौ परिशोधनाधीनौ अभवताम्। अत्रैव मुख्यवैमानिकं विरुध्य परिणतिः अजायत।