OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 15, 2026

 २०२७ जनसंख्यागणना।

प्रश्नावलिः बहिःप्रकाशिता। 


जातिवृत्तान्ताः संगृहीष्यन्ते। 

नव दिल्ली> २०२७ मार्च् प्रथमदिनाङ्के आरप्स्यमाणस्य प्रश्नावलिः केन्द्रप्रशासनेन बहिःप्रकाशिता। ४० प्रश्नाः अन्तर्भूताः सन्ति। नवम, दशम प्रश्नरूपेण नागरिकाणां   धर्म-जातिवृत्तान्तः प्रश्नायते। राष्ट्रे प्रथमतया एव जनसंख्यागणनस्य अंशतया जातिवृत्तान्ताः अपि संगृह्यन्ते। 

 स्वातन्त्र्यलब्धेः परं संपद्यमाना अष्टमी जनसंख्यागणना भवत्येषा। सामान्यतया आगामि वर्षे मार्च् प्रथमदिनाङ्के एव जनसंख्यागणना आरप्स्यते। किन्तु जम्मु-काश्मीरं, लडाकं,हिमाचलप्रदेशः, उत्तराखण्डः इत्येषु प्रदेशेषु गणनप्रक्रियायाः प्रथमसोपानम् आगस्ट् १७ तमे दिनाङ्के आरप्स्यते। 

  जनसंख्यागणनायै ६१२८२ परिसंख्यानप्रवर्तकाः [Enumeraters] १०१८९ पर्यवेक्षकाः [supervisor] च नियुक्ताः।