OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 12, 2026

 भूकम्पः।

कोलम्बियायाम् आपत्कालीनजागरूकता।

मरणानि १८१, आहताः १३००, अदृष्टाः ३०००।

भवनावशिष्टे अन्वेषणं कुर्वन्ति। 

पेरेरा> कोलम्बियाराष्ट्रे सोमवासरे दुरापन्ने भूकम्पे मृतानां संख्या १९१ अभवत्। १३०० जनाः आहताः इति प्राथमिकगणना। ८६ अधिकानि भवनानि भग्नानि। ३००० अधिके जनाः अदृष्टाः सूच्यन्ते। तेषां कृते अन्वेषणं प्रचलन्ति। 

  मरणसंख्या इतोSपि वर्धिष्यते इति सूच्यते। राष्ट्रे देशीयापत्कालीनावस्था उद्घोषिता। पेरेरा नामके नगरे अस्ति अधिकतया कष्टनष्टानि वृत्तान्तीकृतानि। षट् विमाननिलयाः अल्पकालीनतया पिहिताः। पञ्चनगरेषु रक्तजागरूकता प्रख्यापिता।