कोटग्रामे संस्कृतस्य महाकुम्भः! देववाण्याः जयघोषैः गूँजितः आदर्श-संस्कृत-ग्रामः
कोटग्रामः, मोरी, उत्तरकाशी। उत्तराखण्ड-संस्कृत-संस्थानस्य, उत्तराखण्ड-सर्वकारस्य च निर्देशानुसारम् आदर्श-संस्कृत-ग्रामे कोटग्रामे सोमवासरे, १० अगस्त २०२६ दिनाङ्के प्रथमः अवस्थापनादिवस-समारोहः हर्षोल्लासेन उत्साहेन च सम्पन्नः। कार्यक्रमस्य आयोजनं ग्रामप्रधानद्वारा श्रीमती-संगीता-रावत-महोदयाया: अध्यक्षतायां ग्रामस्थे सोमेश्वर-महादेव-मन्दिर-प्राङ्गणे सम्पन्नम्।
कार्यक्रमात् पूर्वं प्रातः ११ वादने समस्ताः ग्रामवासिनः कुलाका-शिवमन्दिर-प्राङ्गणे समागताः। ततः तस्मात् स्थालात् भव्यसंस्कृत-शोभायात्रा प्रारब्धा, या सोमेश्वर-महादेव-मन्दिर-प्राङ्गणं यावत् अगच्छत्। शोभायात्रायां वैदिक-मन्त्राणां घोषेण, संस्कृतगीतैः संस्कृतजयघोषैश्च सम्पूर्णस्य ग्रामस्य वातावरणं संस्कृतमयम् अभवत्।
ग्रामवासिनः विद्यार्थिनश्च महता उत्साहेन शोभायात्रायां सहभागितां कृतवन्तः।
समारोहे मुख्यातिथिरूपेण समाजसेवकः श्री लायवरसिंहरावत्-महोदयः, विशिष्टातिथिरूपेण श्री पिताम्बर-उनियाल-महोदयः तथा सारस्वतातिथिरूपेण उच्चप्राथमिकविद्यालयस्य प्रधानाध्यापक: श्री कुशालसिंह-महोदयः, प्राथमिकविद्यालयस्य कोटग्रामस्य प्रधानाचार्यः श्री रोहिताश-उनियाल-महोदयश्च उपस्थिताः आसन्।
अतिथिभिः स्वीयेषु उद्बोधनेषु संस्कृतभाषायाः महत्त्वं, भारतीयसंस्कृतेः संस्काराणां च संरक्षणम्, नवसन्तते: संस्कृतेन सह संयोजनस्य आवश्यकता च विशेषतः प्रतिपादिता। तैः आदर्श-संस्कृत-ग्राम-कोटग्रामस्य अस्याः कार्यस्य प्रशंसा कृता तथा च ग्रामवासिनः अस्य विकासे निरन्तरं सहयोगं कर्तुं प्रेरिताः।
कार्यक्रमे विद्यार्थिभिः ग्रामवासिभिश्च विविधाः संस्कृत-सांस्कृतिक-कार्यक्रमाः, संस्कृतगीतानि, श्लोकपाठाः अन्याः च मनोहराः प्रस्तुतयः प्रस्तुताः। उपस्थितैः अतिथिभिः ग्रामवासिभिश्च विद्यार्थिनां प्रस्तुतयः प्रशंसिताः तथा ते उत्साहिताः।
कार्यक्रमस्य संयोजकेन आदर्श-संस्कृत-ग्रामस्य प्रशिक्षकेन आचार्य-माधवप्रसाद-पौडेल-महोदयेन कार्यक्रमस्य कुशलं सञ्चालनं कृतम्। स्वीयमन्तव्ये सः अवदत्—
“संस्कृतं केवलं भाषा नास्ति, अपितु अस्माकं समृद्धायाः भारतीयसंस्कृतेः, परम्परायाः संस्काराणां च आधारशिला अस्ति। आदर्श-संस्कृत-ग्रामे कोटग्रामे ग्रामवासिनां विद्यार्थिनां च यः उत्साहपूर्णः सहभागः दृश्यते, तेन एतद् विश्वासपूर्वकं वक्तुं शक्यते यत् निकटभविष्ये अयं ग्रामः संस्कृतस्य संरक्षणे, संवर्धने, प्रचार-प्रसारे च अनुकरणीयं केन्द्रं भूत्वा सम्पूर्णस्य प्रदेशस्य कृते आदर्शं स्थापयिष्यति।”
सः अवदत् यत् ग्रामवासिनां निरन्तरं सहयोगः सक्रियः सहभागश्च अस्य अभियानस्य महत्तमा शक्तिः अस्ति। सामूहिकप्रयत्नैः कोटग्रामः शीघ्रमेव संस्कृतस्य प्रचार-प्रसारस्य प्रमुखं केन्द्रं भूत्वा सम्पूर्णे प्रदेशे स्वकीयां विशिष्टां परिचितिं स्थापयिष्यति।
कार्यक्रमस्य अध्यक्षतां कुर्वत्या ग्रामप्रधानया श्रीमती-संगीता-रावत-महोदयया सर्वेषां अतिथीनां, ग्रामवासिनां, विद्यार्थिनां सहयोगिनां च प्रति आभारः व्यक्तः। सा अवदत् यत् ग्रामस्य आदर्श-संस्कृत-ग्रामरूपेण विकासाय ग्रामपञ्चायत् समस्ताश्च ग्रामवासिनः निरन्तरं सहयोगं प्रदास्यन्ति।
कार्यक्रमे बहुसंख्याकाः ग्रामवासिनः विद्यार्थिनश्च उत्साहपूर्वकम् उपस्थिताः आसन्। अनेन आयोजनेन संस्कृतभाषया सह भारतीयसंस्कृतेः, परम्परायाः संस्काराणां च संरक्षणस्य दिशि सकारात्मकः प्रेरणादायकश्च सन्देशः प्रदत्तः।

