OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 16, 2020

वार्तामुक्तकानि 
वर्षाकालीनवृष्टिः जूण् ५तमे प्राप्स्यति।
अनन्तपुरी > मण्सूण् वर्षाकालीनवृष्टिः जूण् पञ्चमे दिनाङ्के केरलं प्राप्स्यतीति पर्यावरणनिरीक्षणविभागेन निगदितम्। भारते दक्षिणपश्चिमवर्षाकालस्य प्रथमं स्थलप्राप्तिस्थानं भवति केरलम्। अन्तमान् समुद्रे इदानीं न्यूनमर्दः रूपीकृतः अस्ति। अविलम्बेन सः 'अम्फान्' नामकवात्या भविष्यति। एतत् वर्षाकालागमनाय अनुयुक्तं भवतीति पर्यावरणविभागस्य निगमनम्। 
 भारते कोविड्मरणानि २,४६९।
नवदिल्ली >   कोविड्बाधया भारते इतःपर्यन्तं २,४६९ जनाः परलोकं प्राप्ताः। ह्यः शतं जनाः मृताः। रोगबाधितानां संख्या ८१,९७० इति उदगच्छत्। २७,९२० जनाः रोगमुक्ताः अभवन्। रोगमुक्तेः मानं ३४.०६ इत्यस्तीति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। 
 ९, १० कक्ष्यासु कलासंयोजितशिक्षाम् अनिवार्यं कृत्वा सिबिएस्सि। 
नवदिल्ली >  राष्ट्रे ९, १० कक्ष्यासु आयोजनरूपेण [Project] कलासंयोजितशिक्षा सि बि एस् सि संस्थया अनिवार्या कृता। पूर्वोक्तकक्ष्ययोः छात्राः प्रतिविषयं दृश्य-वेदिकासंम्बन्धीनि कलारूपाणि संयोज्य आयोजनाः कार्याः। प्रथमायाः आरभ्य अष्टमीकक्ष्यापर्यन्तं अयं परिष्कारः न अनिवार्यः अपितु प्रोत्साहः करणीयः। भारतस्य कलासांस्कृतिक पारम्पर्यम् अवबोधयितुमुपयुज्यमाने अस्मिन् परिष्कारे एकैकं राज्यम् इतरराज्याणां कलारूपाणि संयोज्य एव आयोजनाः कार्या इति निर्दिष्टमस्ति।