OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 27, 2020

यु एन् शान्तिदौत्यसम्बन्धतया भारतस्य सैनिककर्मचारिण्यै पुरस्कारः।
मेजर् सुमन् गवानी
       जनीव> भारतस्य सैनिककर्मचारिण्यै ऐक्यराष्ट्रसमितेः पुरस्कारः। यु एन् शान्तिदौत्यसम्बन्धतया एव 'मेजर् सुमन् गवानी' महोदयायै ऐक्यराष्ट्रसमित्‍या पुरस्कारोऽयं कल्पितः वर्तते। २०१९ तमवर्षस्य युणैटट् नेषन्स् मिलिटरि जेन्टर् नामकः पुरस्कारः एव लब्धः वर्तते। 
        ब्रसीलराज्यस्य कार्ला मोन्टय्रो दे कास्ट्रो अरौजो नामिकायै वनिताकर्मचारिण्यै अपि सुमन् गवानी महोदयया सह पुरस्कारः कल्पितः अस्ति। सुमन् गवानी अधुना यु एन् दौत्यविभागे मिलिटरि ओब्सेर्वर् नामिकायां पदव्यां सौत्सुडान् मण्डले कार्यं कुर्वन्‍ती अस्ति। अनेन पुरस्कारेण आदृता प्रथमभारतीया भवति इयम्।