OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 31, 2020

राष्ट्रस्य कोविड्प्रतिरोधः एकमनसा एव - अमितशाहः। 
               नवदहली > कोविड्प्रतिरोधप्रवर्तनेषु राष्ट्रम् एकमनसा एव अग्रेसरत् वर्तते इति केन्द्रगृहमन्त्री अमितशाहः। ऐक्यस्यास्य संरक्षणेन कोविड्युद्धे विजयः सुनिश्चित एव इति सः अवदत्। आनुकूल्यसहितेन पञ्चमवारपिधानेन राष्ट्रं पूर्वस्थितिं प्राप्स्यति इत्यपि सः अभिप्रयत्। राज्यान्तरीयकर्मकराणां जीवनसमस्यासु केन्द्रसर्वकारस्य श्रद्धा अवश्यं वर्तते, कोविड्प्रतिरोधप्रवर्तनेषु राज्यैः सह पर्यालोच्य एव केन्द्रसर्वकारेण निर्णया: स्वीक्रियन्ते प्रख्याप्यन्ते च - अमितशाहः असूचयत्।