OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 1, 2020

राज्यान्तरकर्मकराणां स्वदेशगमनार्थं सविशेषरेल् यानाय  अनुज्ञा। 
स्वराज्यगमनपञ्जीकरणाय पेरुम्पावूर् मण्डले सम्मिलिताः राज्यान्तरीयाः कर्मकराः। 
छात्राः, विनोदयात्रिकाः, तीर्थाटकाः इत्यादिभ्यश्च स्वराज्यप्राप्त्यर्थं सुविधा। 
तेलुङ्कानं - झार्खण्डः , केरलं - ओडीषा रेल् यानम् अद्य। 

कोच्ची >  भारते विविधप्रान्तान् उपजीविकायै अधिवसद्भ्यः राज्यान्तरकर्मकरेभ्यः स्वराज्यं प्राप्तुं केन्द्रसर्वकारः सविशेषरेल् यानसुविधाम् आयोजयति। पिधानमानदण्डान्  सुरक्षाक्रमीकरणानि च परिपालयन्नेव यात्रा कार्या इति केन्द्रनिर्देशः। 
  तादृशं प्रथमं सविशेषरेल् यानं तेलुङ्कानस्य हल्लम्पल्लि रेल्निस्थानात् झार्खण्डराज्यं प्रति अद्य प्रभाते प्रातिष्ठत्। केरलात् प्रथमं यानं अद्य सायं आलुवा निस्थानात् ओडीषस्य भुवनेश्वरं प्रति प्रस्थितम्। २४ कक्षयुक्ते अस्मिन् याने सहस्रात्परं यात्रिकाः भविष्यन्ति। 
  यात्रिकानां पञ्जीकरणं यथाकालं सम्पन्नम्।  भक्षणं, पानजलं, अवश्यमौषधम् इत्यादिकं दत्वा  केरलसर्वकारः तेभ्यः यात्रामङ्गलमकरोत्। श्वः पञ्च रेल्यानसेवाः अपि राज्यान्तरकर्मचारिभ्यः विधास्यति। 
  तथा च विविधराज्येषु कूटस्थाः छात्राः, विनोदयात्रिकाः, तीर्थाटकाः इत्यादीनां स्वराज्यप्राप्तये अपि रेल् यानसुविधा आयोजिता। महाराष्ट्रं, बीहारः इत्यादिभ्यः राज्येभ्यः अपि रेल् यानसेवा आरब्धुं प्रक्रमाः आरब्धाः।