OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 3, 2020

जनधन वित्तलेखान् प्रति केन्द्रसर्वकारस्य धनसाहाय्यम्।
   नवदहली> राष्ट्रस्य वित्तकोशेषु वनितानां वित्तलेखान् प्रति केन्द्रसर्वकारस्य धनसाहाय्यस्य द्वितीयः अंशः सोमवासरादारभ्य लभ्यते। वित्तकोशेषु जनबाहुल्यं न्यूनीकर्तुं संख्यासम्प्रदायः कल्पितः अस्ति। येषां वित्तकोशविनिमयसंख्यायां अन्ते ०,१ संख्ये वर्तेते तेभ्यः सोमवासरे, २,३ संख्यकेभ्यः मङ्गलवासरे इत्येवम् अस्य मासस्य ११ दिनाङ्कपर्यन्तं धनस्वीकरणाय समयः कल्पितः अस्ति। ५०० रुप्यकाणां धनसाहाय्यमेव अधुना लभ्यते। धनसाहाय्यपद्धतेः प्रथमांशरूपेण एप्रिल् मासे ५०० रुप्यकाणि लब्धानि आसन् ।  तृतीयांशः जूण् मासे लप्स्यते च।