OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 25, 2020

विश्वे कोविड्बाधिताः ५५ लक्षमुपगच्छन्ति ; मृत्युसंख्या ३,४६,००० अतीता। 
 > आविश्वं कोविड् व्यापनस्य मानम् आशङ्कायमानं वर्धते। ह्यः अर्धरात्रं यावत् ५४,९१४४८ जनेषु रोगः स्थिरीकृतः। ३,४६,५३५ जनाः मृताश्च। गते २४ होराभ्यन्तरे ६६,६३५ जनेषु रोगः दृढीकृतः १९२८ जनाः मृत्युवशं गताश्च। रोगमुक्तिः इतःपर्यन्तं २२,८७,४१४ जनानामस्ति। 
  रोगबाधिनानां संख्यायाम् अमेरिक्का अग्रिमस्थाने वर्तते - १६,७६,४६० रोगबाधिताः। रविवासरे एव ९६३२ जनेषु रोगः स्थिरीकृतः। 
  द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। ३,५२,७४० जनाः तत्र रोगबाधिताः अभवन्। २४ होराभ्यन्तरे ५३५० जनान् रोगः अबाधत। तृतीयस्थाने रूस् राष्ट्रं वर्तते - ३,४४,४८०। 
  भारते इतःपर्यन्तं १,३१,८६८ जनेषु रोगः स्थिरीकृतः। मृत्युसंख्या ३,८६७ अभवत्। ५४,४४१ जनाः रोगमुक्ताः अभवन्।