OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 14, 2020


केरलेषु विरामकालीयः अध्यापकपरिवरितनकार्यक्रमः समारब्धः।
कक्ष्याप्रकोष्ठे अध्यापकव्यवहारेण छात्राणां मननविकासः साध्यः - केरल शिक्षामन्त्री।
विक्टेर्स् संप्रेषणवाहिनी द्वारा शिक्षामन्त्रिणा चालित वर्गः। 
   अनन्तपुरी> छात्राणां प्रज्ञां निरीक्षणेन युक्तियुक्तचिन्तनेन च दिङ्मण्डलपर्यन्तं विकसितुम् उपयुज्यमानरीत्या भवेत् शिक्षकस्य कक्ष्याप्रकोष्ठे पाठविनिमयः इति केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथेन उक्तम्। आगामिसंवत्सरस्य कृते विरामकालीयस्य अध्यापकपरिवर्तनकार्यक्रमस्य प्रथमे दिने "कक्ष्याप्रकोष्ठे शिक्षकः" इति प्रथमं सत्रं संवादरूपेण निर्वहन् भाषमाणः आसीत् सः। केरल सामान्यशिक्षाविभागस्य 'विक्टर्स्'नामकसंप्रेषण वाहिनि द्वारा आसीत् शिक्षामन्त्रिणः वर्गचालनम्। 
   शिक्षकस्य संवेदनानन्तरम् अवगतं विषयमधिकृत्य छात्रेण  स्वयमेव प्रश्नः पृष्टव्यः, अन्वीक्षणं कार्यं, निर्णयः करणीयः। एवम् अन्वीक्षणमनोभावः प्रवर्धनीयः। तदर्थम् अध्यापकस्य कक्ष्याप्रकोष्ठप्रवर्तनानि परिवर्तनीयानि। मन्त्रिणा विशदीकृतम्। 
  प्राथमिकस्तराणां [UP विभागः] शास्त्रविषयानधिकृत्यैव शिक्षामन्त्रिणः वर्गः सम्पन्नः। एकैकस्य छात्रस्य नित्यपरिचितानि उदाहरणानि सूचयित्वा कथं शास्त्रतत्वानाम् अवबोधनं सुगमं कार्यमिति तेन वर्गः नीतः। कश्चनस्तरीयः कश्चनपाठः पूर्वस्तरीयस्य अनन्तरस्तरीयस्य च एकैकेन पाठेन कथं बन्धितमित्यपि दृष्टान्तपूर्वकं तेन समर्थितम्। 
  प्रोफ. रवीन्द्रनाथस्य वर्गानन्तरं ऐक्यराष्ट्रसंघटनस्य दुरन्तनिवारणसंस्थायाः प्रमुखः मुरली तुम्मारुक्कुटी इत्यनेन चालितं विद्यालयसुरक्षामधिकृत्य सत्रमपि सम्पन्नम्।