OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 22, 2020

सम्पूर्णपिधानम् - लङ्घनं प्रतिरोद्धुं राज्यसर्वकारेभ्यः केन्द्रगृहमन्त्रालयस्य निर्देशः।

       नवदहली> राष्ट्रे कोरोणभीत्या प्रख्यापितं सम्पूर्णपिधानम् अधुना चतुर्थस्तरं प्रविष्टमस्ति। चतुर्थस्तरेऽस्मिन् काले कठिननियन्त्रणेभ्यः केन्द्रसर्वकारेण सौलभ्यं च दत्तं वर्तते। किन्तु बहुत्र निर्देशानां लङ्घनादिकमपि सञ्जातम्। अतः मार्गनिर्देशानां पालने राज्यसर्वकारैः अतीव श्रद्धा देया इति संसूच्य सर्वेभ्यः मुख्यकार्यदर्शिभ्यः केन्द्रगृहमन्त्रालयेन लेखनं प्रेषितं वर्तते। तीव्रबाधितमण्डलेष्वपि निर्देशानां लड्घनं जातमिति लेखने सूचितं वर्तते। भारते कोविड्१९ बाधितानां संख्या अधुना ११२३५९ अभवत्। अत्र चतुर्विंशतिघण्डाभ्यन्तरे ५६०९ जनेषु कोविड्बाधः स्थिरीकृतः अस्ति। एतावता कोविड्बाधेन ३४३५ जनाः मृताः अभवन्। ६३६२४ जनाः अधुना चिकित्सायां वर्तन्ते।  कोविड्बाधितेषु ४५२९९ जनाः मुक्ताः च अभवन्।