OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 2, 2020

भारते पिधानं सप्ताहद्वयंं यावत् दीर्घीकृतम्। 
केषुचन मण्डलेषु आश्वासप्रक्रमाः। 
नवदिल्ली >  भारते सम्पूर्णपिधानस्य कालपरिमाणं मेय् तृतीयदिनाङ्के परिसमाप्यमाणे , सप्ताहद्वयं यावत् पिधानं दीर्घीकृत्य गृहमन्त्रालयस्य विज्ञापनम्। मेय् १७पर्यन्तमेव तृतीयसोपानपिधानस्य कालः। 
  आराष्ट्रं जनपदान् 'रक्त ओरञ्ज हरित' मण्डलरूपेण वर्गीकृत्य क्रियमाणानि प्रवर्तनानि आदेशे निर्दिष्टानि। ओरञ्ज हरित मण्डलेषु नियन्त्रितरीत्या आश्वासप्रक्रमाः प्रख्यापिताः। किन्तु आराष्ट्रं मण्डलभेदं विना कानिचन नियन्त्रणानि आयोजितानि। व्योम रेल् मेट्रो गमनागमनानि निरुद्धानि। अन्ताराज्य-गमनागमनानाम् अपि अनुज्ञा नास्ति। विद्यालय कलालयादि शैक्षिकसंस्थाः पिहितरूपेणैव वर्तिष्यन्ते। 
  सामाजिक राजनैतिक धार्मिकमेलनानि निरुद्धानि। सायं सप्तवादनादारभ्य प्रभाते सप्तवादनपर्यन्तं सर्वेषामपि यात्रा न विहिता। ६५ तः उपरि वर्तमानाः वृद्धजनाः दशवयः पर्यन्तं विद्यमानाः बालकाः सगर्भाः महिलाः इत्येषां गृहान्तर्वासः विहितः।