OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 27, 2020

राष्ट्रान्तराण्यपेक्षया भारते कोविड्१९ मरणानुपातः न्यूनः - स्थास्थ्यमन्त्रालयः।
          नवदहली> अन्यानि विश्वराष्‍ट्राण्यपेक्षया कोविड्१९ मरणानुपातः भारते न्यूनः इति स्वास्थ्यमन्त्रालयस्य अवलोकनम्।  विश्वे कोविड्१९ मरणानुपातः लक्षे ४.४ भवति, किन्तु भारते अनुपातोऽयं ०.३ भवति इति स्वास्थ्यमन्त्रालयः सूचयति। भारते रोगमुक्तेः अनुपातः ४१.६१ भवति। रोगबाधितेषु ६०४९० जनाः कोविड्१९ मुक्ताः अभवन्। इतरराज्येषु कर्म कुर्वतां जनानां प्रत्यागमनेन विविधराज्येषु कोविड्१९ रोगिणां संख्यायामपि वर्धनं जातं दृश्यते इत्यपि स्वास्थ्यमन्त्रालयः अवालोकयत्।