OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 17, 2020

आत्मनिर्भरभारताभियानम् - पञ्चमस्तरप्रख्यापनम्।
        नवदहली> आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजक-परियोजनायाः पञ्चमं तथा अन्तिमं च विशदीकरणं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वाश्रयभारतनिर्माणं परियोजनायाः अस्याः मुख्यं लक्ष्यं वर्तते इति धनमन्त्रिणी अवदत्। तदर्थं राष्ट्रस्य समस्तविभवानाम् उपयोग: कार्यः इति सा अवदत्। प्रधानतया ७ मण्डलानि आधारीकृत्यैव अन्तिमे प्रख्यापने प्रामुख्यं दत्तं दृश्यते। देशीयग्रामीणकर्मप्रदानपरियोजना, आरोग्यमण्डलं, व्यापारः, व्यापारसङ्‌घनियमः, व्यापारारम्भाय कल्पितव्यवस्थानां सरलीकरणं, राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यम् इत्यादिषु सप्तसु मण्डलेषु अद्‌य प्रख्यापनमभवत्। केन्द्रसर्वकारेण ८.१९ कोटिजनेभ्यः धनवितरणं कृतम्। ६.८१ कोटि पाचकवातकस्तम्भानां वितरणं तथा जन्धनसुविधाद्वारा २० कोटिरुप्यकाणां  वितरणं च कृतं वर्तते। आरोग्यमण्डले १५००० कोटिरुप्यकाणां वितरणं कृतम्। राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यं ५% इति वर्धितम्। शैक्षिकमण्डले साङ्केतिकविद्यायाः उपयोगः कार्यक्षमतया क्रियते, राष्ट्रस्य सर्वकारनियन्त्रणविधेयानां सामान्यस्तरीयस्थापनानां संख्या न्यूनीक्रियते, देशीयग्रामीणकर्मप्रदानपरियोजनायाः कृते ४०००० कोटिरुप्यकाणाम् अधिकधनसाहाय्यं च प्रख्यापितेषु अंशेषु प्राधान्यमावहन्ति।