OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 21, 2020

उम्पुण् चक्रवातः बङ्गालराज्ये अतिशक्तः - मरणसंख्या ७२

     कोल्कत्ता> उम्पुण् चक्रवातः अतिशक्ततया बाधिते बङ्गालराज्ये मरणसंख्या ७२ अधिगता इति मुख्यमन्त्रिणी ममता बानर्जी। सन्दर्भेऽस्मिन् अधिकं केन्द्रसाहाय्यम् आवश्यकमिति सा असूचयत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गाराज्यसन्दर्शनं करणीयमित्यपि ममता बानर्जी अवदत्। प्रतिघण्टं १८५ कि.मि भवति चक्रवातस्य वेगः। चक्रवाताक्रमणेन एकलक्षं कोटि रुप्यकाणां नाशः जातः इति मुख्यमन्त्रिणी अवदत्। वृक्षाणां पतनेन बहुत्र सञ्चारमार्गाः अवरुद्धाः सन्ति। कोल्कत्तवैमानिकसङ्केते पूर्णतया जलोपप्लवः बाधितः वर्तते। मृतानां परिवारेभ्यः राज्यसर्वकारेण धनसाहाय्यं प्रख्यापितमस्ति।