OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 15, 2020

आत्मनिर्भरभारताभियानम् - तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। 
      नवदहली> आत्मनिर्भरभारताभियानस्य तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् सहमन्त्री अनुरागठाकुरः च अकुरुताम्। कृषेः,अनुबन्धमण्डलानां च प्राधान्यं प्रख्यापनेऽस्मिन् मुख्यं वर्तते। प्रतिबन्धानां समस्यानां च तरणाय आवश्यकं साहाय्यं कर्षकेभ्यः दीयतेति धनमन्त्रिणी अवदत्। भक्ष्यसंस्करणं, मत्स्यबन्धनं, जन्तुसंरक्षणम् इत्यादीनां मण्डलानामपि प्रामुख्यं दीयमानः भवति परियोजनायाः तृतीयस्तरः इति धनमन्त्रिणी अविशदयत्। ११ कार्यक्रमाः अद्य विशदीकृताः वर्तन्ते, तेषु अष्टौ कार्यक्रमाः आधारविकसनप्रवर्तनेभ्यः त्रयः तु शासनपरिष्करणप्रर्वर्तनेभ्यः च भवन्ति। 'किसान् सम्मान् निधि ' द्वारा १८००० कोटिरुप्यकाणि,  'फसल् बीमा योजना ' द्वारा ६४०० कोटिरुप्यकाणि च जनेभ्यः दत्तानि, ७४३०० कोटिरुप्यकाणि विभवानाम् आधारमूल्यसम्भरणाय च व्ययीकृतानि - धनमन्त्रिणी अविशदयत्।