OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 25, 2020

कोविड् चिकित्सार्थं केरलस्य स्वास्थ्य सेवकानां सेवनम् महाराष्ट्रेण  अपेक्षितम्।
        मुंबई>कोविड् रोगाणुव्यापनम्  अनियन्त्रित रूपेण वर्धिते साहचर्ये कोविड् चिकित्सार्थं केरलात् वैद्यानां, अनुवैद्यानां च साहाय्यम्  महाराष्ट्र सर्वकारेण अपेक्षितम्।
एतदर्थं महाराष्ट्र स्वास्थ्यशिक्षायाः सूत्रधारः टी.पी.लहाने स्वास्थ्य मन्त्रिणी के.के.शैलजायै पत्रं प्रेषितवान्।
     कुशलान्  ५० वैद्यान् १००अनुवैद्यान् च प्रेषणीयम्  इत्यस्ति महाराष्ट्रस्य प्रार्थना। मुंबई, पूने इत्यादि नगरयोः केरलस्य स्वास्थ्यप्रवर्तकान् विन्यस्तुं महाराष्ट्र सर्वकारः उद्दिश्यते।
ताना नगरात् रविवासरे सायं काले प्रस्थितुं निश्चितस्य श्रमिक् रेलयानस्य यात्रां  कैरलसर्वकारस्य प्रतिषेधेन अन्तिमहोरायां स्तगितम् अभवत्I यात्रिकेभ्यः ई-पास् नास्ति, एकान्तवासगृहाणि आवश्यकतानुसारं सज्जीकर्तुम् अधिकः समयः आवश्यकः इति केरलं महाराष्ट्रं प्रति अभ्यर्थितम्। विगते २५ घण्टान्तरे ३०४१ जनाः महाराष्ट्र राज्ये कोविड् महाव्याधिना  बाधिताः। एवं राज्यस्य कोविड् रोगबाधितानां संख्या ५०००० अतीतः। मरणसंख्या तु १६३५ इति अवर्धत। प्रतिदिनं रोगबाधितानां तथा मृतानां संख्या वर्धिते साहचर्ये एव केरलराज्यस्य साहाय्यमपि महाराष्ट्रेण अपेक्षितम्।