OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 24, 2020

उम्पुण् चक्रवातः - बङ्गालराज्ये सैन्यस्य सेवनम्।
         कोल्कत्ता> उम्पुण् चक्रवातस्य आक्रमणेन दुरितमनुभवति बङ्गालराज्ये रक्षाप्रवर्तनाय सैन्यं विन्यस्य केन्द्रसर्वकारः। बङ्गालस्य मुख्यमन्त्रिण्याः ममता बानर्जिमहोदयायाः प्रार्थनां परिगण्य एव केन्द्रसर्वकारेण निर्णयोऽयं स्वीकृतः वर्तते। सैन्यस्य पञ्च संघाः एव सेवनाय आगताः वर्तन्ते। अधुना एन्‌ डि आर् एफ् विभागस्य दश संघाः बङ्गाले सेवनं कुर्वन्तः सन्ति।  स्थितिगतीः निर्णेतुं गतदिने प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गालराज्यं सन्दर्शितं, तदा अधिकसाहाय्यं सम्बन्ध्य ममता बानर्जिमहोदयया अभ्यर्थितम् आसीत्।