OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 12, 2020

अतिजाग्रता आवश्यकी, कोरोणावैराणोः द्वितीय-पादव्यापनम् आशङ्काजनकम्- विश्वस्वास्थ्य-संस्था। 
    नवदिल्ली>  कोरोणावैराणोः व्यापनस्य द्वितीयपादे  अतिजाग्रता आवश्यकी इति विश्वस्वास्थ्य-संस्थया निवेदिताI  कोरोणावैराणोः द्वितीयपादव्यापनम् संबन्ध्य आविश्वम् आशङ्का वर्तते इति संस्थायाः अध्यक्षः टेड्रोस् अथनों इत्याख्यः अवदत्। पिधानात् मोचनः प्रतीक्षानिर्भरः चेदपि अतीव जाग्रतया जीवनं यापनीयम्। तीव्र नियमेभ्यः स्वल्पविच्छेदनेन जर्मनीदेशे कोरिय देशेऽपि रोगः वर्धितः आसीत्I कोरोणवैराणोः द्वितीयागमनं प्रतीक्ष्य सदा जागरूकाः भवितव्याः इति विश्व-स्वास्थ्य संस्थायाः आपत्कालीन-विभागस्य अध्यक्षः वैद्यः मैक् रयानः च अवदत्I