OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 17, 2020

जन्मदेशं प्रतिगमनं मृत्युयात्रा अभूत्। 
१५ अधिनिवासितकर्मकराः ट्रक् यानदुर्घटनायां मृताः। 
औरय्या  >  उत्तरप्रदेशस्थे औरय्या - काण्पुरराष्ट्रियमार्गे अधिनिवासितकर्मकरयुक्तं ट्रक् यानं स्थगितभारवाहनेन सह घट्टनेन २५ कर्मकराः मृताः। ४० आहताः। आहतेषु १४ कर्मकराणामवस्था गुरुतरा वर्तते। शनिवासरे उषसि त्रिवादने आसीदियं दारुणा दुर्घटना। 
  दिल्लीतः मध्यप्रदेशं गतवदासीत् भारवाहनम्। अस्मिन्नपि पलायमानाः कर्मकराः आसन्। किन्तु विश्रान्त्यर्थं मार्गपार्श्वे स्थगितमासीत्। राजस्थानात् उपपञ्चाशत् अधिनिवासितकर्मकरैः युक्तं ट्रक् यानं स्थगितं भारवाहनं प्रति घट्टितमासीत्। झार्खण्डः- पश्चिम वंग स्वदेशीयाः कर्मकराः आसन् ट्रक् याने।