OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 24, 2020

केरले कोविड्रोगिणां संख्या उद्गच्छति। 
कोच्ची > कोविड्रोगसंक्रमणनियन्त्रणे विश्वादर्शभूते केरले कतिपयदिनैः रोगिणां संख्या उद्गच्छति। रोगिषु बहुभूरिणः स्वराज्यं प्रत्यागतवन्तः प्रवासिजनाः इतराराज्येभ्यः आगतवन्तः च। सम्पर्केण रोगबाधिताः तारतम्येन न्यूनातिन्यूनमिति आश्वासजनकं वर्तते। 
  ह्यः ६२ जनेषु रोगः स्थिरीकृतः। १८ विदेशादागतवन्तः, ३१ राज्यान्तरेभ्य आगताश्च। सम्पर्केण १३ जनाः रोगिणः अभवन्। तेषु ७ स्वास्थ्यप्रवर्तकाः।  अनेन दिनद्वयेन १०४ जनाः रोगबाधिताः अभवन्। 
  २७५ जनाः इदानीम् आतुरालयेषु चिकित्सायां वर्तन्ते। विदेशेभ्यः इतरराज्येभ्यः प्राप्तान् जनान् एकान्तवासाय नियुज्य निरीक्षितुं शक्यते इत्यतः रोगव्यापनसंख्या नियन्त्रणविधेया अस्ति।