OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 1, 2020

आरोग्यप्रवर्तकान् अभिनन्दयन् भारतस्य प्रधानमन्त्री।
  भारतराष्ट्रे> कोविड्‌१९ रोगप्रतिरोधप्रवर्तनेषु व्यापृतानाम् आरोग्यप्रवर्तकानां कृते प्रधानमन्त्रिणः नरेन्द्रमोदिनः अभिनन्दनम्। एते आरोग्यप्रवर्तकाः राष्ट्रस्य अभिमानप्रात्राणि भवन्तीति प्रधानमन्त्रिणा अभिप्रेतम्। कोविड्‌१९ व्यापनं प्रति भारतस्य प्रतिरोधप्रवर्तनेषु आरोग्यप्रवर्तकानां योगदानम् अमूल्यमेवेति तेन सूचितम्। विविधेषु प्रदेशेषु कोविड्१९ प्रतिरोधप्रवर्तनात्परं प्रत्यागतेभ्यः आरोग्यप्रवर्तकेभ्यः दत्तानाम् अभिनन्दनकार्यक्रमाणां चलनचित्राणि ट्विट्टर् माध्यमद्वारा समर्प्य एव नरेन्द्रमोदिना अभिनन्दनं कृतम्।