OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 26, 2020

यात्रा नियन्त्रणे समाश्वासः, यू.ए.ई. सामान्यावस्थायां प्रत्यागच्छति।
     दुबई> यु.ए.ई. मन्दं सामान्यावस्थां प्रति आगच्छति। तदर्थम् दुबय्यां यात्रा नियन्त्रणे समाश्वासः प्रदत्तः। बुधवासरतः प्रभाते ६वादनतः रात्रौ ११वादनपर्यन्तं बहिः गन्तुं नियन्त्रणं नास्ति। औद्यमिकसंस्थानाः, जनजीवितं च सामान्य- अवस्थायाम् आनयितुमेव एमिरेट्स् उद्दिश्यति। धनकार्यमण्डले कोरोणा रोगाणुना सृष्टं समस्यायाः परिहारं लक्षीकृत्य भवति नूतनाः निर्देशाः।
    'अमर्तषील्' केन्द्राः सामान्यसमयक्रममनुसृत्य उद्घाटयेयुः। अल्पशो वा बहुशो वा विक्रेतृभ्यः साधारणरीत्या प्रवर्तयेत्। प्राथमिकस्तरस्य चिकित्सालयानां प्रवर्तनानुमतिः दत्ता। लघुशस्त्रक्रिया अपि अत्र कर्तुं शक्यते। शिशोः अध्ययनानुगुण-चिकित्सा-केन्द्राणां साधारणरीत्या प्रवर्तनाय अनुज्ञा अस्ति। कायपालन-केन्द्रेभ्यः, चलनचित्र-शालाभ्यः प्रवर्तनानुमतिः अस्ति। शारीरिकदूरं पालयित्व एव अत्र जनानां प्रवेशः। मुखावरणं आवश्यकं च। निश्चितहोराभ्यन्तरे  अणुनाशनम् करणीयमिति निर्बन्धः अस्ति।
दुबई व्योमयाननिलयं प्रति विदेशेभ्यः  समागतान् यात्रिकान् स्वीकर्तुं सज्जीकृतः। विदेशेषु आगतवन्तः निश्चयेन १४दिनानि यावत् एकान्तवासः पालनीयः। ६०वयः उपरि जनाः,१२वयः अधः शिशुः च बहिर्गमनं न करणीयम्।
     सौदि अरेब्यायामपि नियन्त्रणेषु गुरुवासरतः क्रमेण समाश्वासः भविष्यति। सामान्य-जनान् दैनं दिनजीवने प्रत्यागन्तुं प्रारम्भाणि प्रवर्तनानि सौदिराष्ट्रेण क्रियन्ते।