OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 1, 2020

कोविड् समस्या- ब्रिटीश् एयर्वेस् १२,००० कर्मकराणां संख्या न्यूनीक्रियते।
   लन्टन्> कोविड् महाव्याधिना जायमानां दुर्घटावस्थां  तारणाय ब्रिटीश् एयर्वेस् १२,००० कर्मकराणां संख्या न्यूनीक्रियते । संस्थायाः पुनः संघटना पद्धतेः भागतया संख्याधिकान् कर्मकरान् ब्रिटीश् एयर्वेसस्य मातृसंस्था इन्टर्नाषणल्  एयर्लैन् संस्थया एवम् आवेदितम्।
पद्धतयः इदानीं संस्थायाः आलोचना विषयाः भवन्ति। परन्तु एतानि कार्याणि ब्रिट्टीश् एयर्वेसस्य भूरि कर्मकरान्  बाधते इति संस्थया आवेदितम्। परिवर्तिते काले १२,०००कर्मकराः संस्थया परित्यक्ताः भवेयुः। २०१९तमे संवत्सरे यावन्तः यात्रिकाः आसन्, तावन्तः तत्समानरीत्या यात्रिकान् लब्धुम् इतोऽपि परं कतिपयसंवत्सराः आवश्यकाः इति संस्थया आवेदितम्। व्योमयानानां निश्चलत्वेन इह स्थितिवशात् संस्थायाः महानष्टं अभवत्। ब्रिटीश् एयर्वेस् संस्थायां ४५०० वैमानिकाः,१६००० विमानयात्रिकानां परिचारकाः च सन्ति। इदानीं विदेशेषु बन्धितानाम् आनयनाय विशेषसेवा ब्रिटीश् एयर्वेस् संस्थया क्रियते।