OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 19, 2020

पलायनस्य अनुस्यूतप्रवाहसाक्षीभूता राजधानिनगरी। 
पलायनाय यतितः अधिनिवासितकर्मकरपरिवारः आरक्षकनिरुद्धः सन् सेतुस्तम्भस्य अधः विश्राम्यति। 
 
 नवदिल्ली >  इतरराज्यकर्मकराणां पलायनेन  राजधाननगरी दिल्ली निरुद्धश्वासा वर्तते। दशसहस्रशः जनाः उत्तरप्रदेशः, बिहारः , मध्यप्रदेशः इत्यादिस्थान् स्वग्रामान् गन्तुं बस् यानानि प्रतीक्ष्यमाणाः दिल्ल्याः सीमाप्रदेशेषु सम्भूयमानाः सन्ति। केचित्तु धनविनष्टाः तीव्रं ग्रीष्मातपम् अनालक्ष्यमाणाः बहुयोजनादूरे वर्तमानान् ग्रामान् लक्ष्यीकृत्य पदसञ्चलननिश्चेन वर्तन्ते। प्रस्थिताः केचन आरक्षकैः निरुद्धाः। 
  सीमाजनपदे गासियाबादे वर्तमानं रामलीलाक्रीडाङ्कणं 'श्रमिक्' रेल् यानान्याश्रित्य स्वदेशं गन्तुमिच्छुभिः कर्मकरैः निर्भरमस्ति। 
  शतशः कर्मकराणां पलायने पूर्वदिल्लीस्थं 'मयूरविहारं' ह्यः साक्षीभूतमभवत्। तीव्रातपे श्रान्ताः बहवः मेट्रोस्तम्भानां निस्थानानां चाधः अभयं प्राप्तवन्तः। एकैकशः संघशश्च पद्भ्यां चरतां कर्मकराणां दृश्यं  दुःखदं भवति।