OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 13, 2020

प्रतीक्षां संवर्ध्य भारते कोविड्१९ प्रतिरोधाय औषधपरीक्षणम्। 
     नवदहली > विश्वे कोविड्१९ व्यापनं तथा मरणं च अनुदिनं वर्धमानं दृश्यते। तथापि प्रतिरोधप्रवर्तनान्यपि ऊर्जितानि सन्ति। राष्ट्राणि परस्परसहयोगेन कोविड्प्रतिरोधाय प्रवर्तन्ते। तत्र प्रतिरोधप्रवर्तनेषु सुरक्षानियमानां पालनमिव नूतनौषधनिर्माणपरीक्षणमपि राष्ट्राणि मुख्यतया कुर्वन्ति। एतावता भारतेऽपि परीक्षणादिकम् अग्रेसरत् वर्तते। अधुना कोविड् प्रतिरोधस्य भागतया भारतं तृतीयं औषधप्रयोगस्तरं प्रवेष्टुं सज्जं भवति। मुम्बय् आस्थानत्वेन प्रवर्तमानं ग्लेन्मार्क् फार्मस्यूटिकल्स् इति स्थापनमेव  औषधपरीक्षणस्य तृतीयस्तरमधिकृत्य विशदीकरणम् अदात्। रोगाणुप्रतिरोधकं 'फविपिराविर्' नामकम् औषधमेव रोगिषु परीक्ष्यते।  एतदर्थम् आवश्यकी अनुमतिरपि स्थापनेन सम्पादिता अस्ति। उचितं फलमेव स्यादित्यपि प्रतीक्षा वर्तते इति अधिकृतैः सूचितम्। जूलैमासान्ते समाप्यमानायां गवेषणपरियोजनायां राष्ट्रस्य दशाधिकाः सर्वकारीय-निजीयातुरालयाः भागभागिनः सन्ति।