OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 12, 2020

पिधानं दीर्घीकरणीयम् - प्रधानमन्त्रिणं राज्यषट्कम्। 
 नवदिल्ली >  मेय् १७ तमे समाप्यमाणं पिधानम् अनुवर्तनीयमिति ह्यः सम्पन्ने मुख्यमन्त्रिणामुपवेशने षट् राज्याणि प्रधानमन्त्रिणं न्यवेदयन्। महाराष्ट्रं, पञ्चाबः, पश्चिमबङ्गाल्, बीहारः, असमः, तेलङ्कानम् इत्येतेषां राज्यानां मुख्यमन्त्रिणः एव एतादृशं निर्देशमुन्नीतवन्तः। पिधानमार्गनिर्देशेषु परिवर्तनं कर्तुं राज्येभ्यः स्वातन्त्य्रं दातव्यमिति केरलमभिव्याप्य बहूनि राज्यानि अभ्यर्थयन्त। 
  किन्तु रोगसंक्रमणरहितेषु प्रान्तेषु इतो$पि शैथिल्यानि आवश्यकानीति दिल्ली केरलं इत्यादीनि बहूनि राज्यानि न्यवेदयन्।