OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 15, 2020

वार्तामुक्तकानि।
 १०, ११, १२ कक्ष्यापरीक्षाः २६ आरभ्य।
अनन्तपुरी > कोविड् व्यापनहेतुतः परिवर्तिताः एस् एस् एल् सि[१०] , +१, +२ परीक्षाः मेय् २६ दिनाङ्कात् आरभ्य आयोजयिष्यति। सामाजिकदूरं परिपाल्य एव परीक्षाः। १०, +१, परीक्षाः मध्याह्नात्परं +२ , वि एछ् एस्  ई परीक्षाः प्रभाते च आयोजयिष्यन्ते।
 प्रवासिनां कृते केरलं प्रति ४० विमानसेवाः।
कोच्ची >  विदेशेषु बन्धितान् केरलीयान् स्वदेशमानेतुं द्वितीयसोपाने आहत्य ४० विमानसेवाः करिष्यन्ते। गल्फ् राष्ट्रेभ्यः १६ सेवाः भविष्यन्ति। अमेरिक्का, यूरोप्, भूखण्डयोः विविधराष्ट्रेभ्यः च सेवाः सन्ति। मेय् १६तः २२पर्यन्तं एयर् इन्डिया, एयर् इन्डिया एक्स्प्रेस विमानानि सेवाः करिष्यन्ति।
 "२० संवत्सराणि ; ५ संक्रमणव्याधयः" - चीनं विरुध्य आरोपः।
 वाषिङ्टण् > गतेषु २० संवत्सरेषु चीनराष्ट्रात् आविर्भूय आविश्वं पञ्च संक्रमणव्याधयः व्यापृताः इति यू एस् राष्ट्रियसुरक्षा उपदेष्टुः रोबर्ट् ओब्रियानस्य आरोपः। चीनतः एतादृशाः रोगाः सहनसीमामतिक्रान्ताः, एनं विषयमधिकृत्य विश्वजनानां जाग्रता आवश्यकीति तेनोक्तम्।
 प्रव्राजिका अजयप्राणमाता समाधिं गता।
 अनन्तपुरी > कोल्क्कोत्तास्थं श्रीशारदामठं, रामकृष्ण शारदामिषन् इत्यनयोः भूतपूर्वा आगोलोपाध्यक्षा तथा तृश्शूरस्थ शारदामठस्य अध्यक्षा प्रव्राजिका अजयप्राणमाता [९३] ह्यः मध्याह्ने अनन्तपुर्यां श्रीरामकृष्णमिषन् अातुरालये समाधिं प्राप्ता।  समाध्यन्ताचाराः अद्य  तृश्शूरस्थे मठे सम्पत्स्यन्ते।
  या च श्रीशारदादेव्याः परिचारिका तथा भगिन्याः निवेदितायाः शिष्या च आसीत् भारतीप्राणमाता तस्याः भारतीप्राणमातुः सकाशात् सन्न्यासं स्वीकृत्य आध्यात्मिकजीवनं प्रविष्टा केरलीया सा धन्यम् आध्यात्मिकजीवितं निर्वाह्य एव समाधिं प्राप।