OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 11, 2020

प्रत्यागमनाय भारतं सिद्धतां करोति।
रेल् सेवा पुनरारभ्यते। 
नवदिल्ली >  कोविड् संक्रमणेन स्थगिता रेल्वे संस्थायाः गमनागमनसुविधा पदे पदे पुनरारभते। श्वःआरसविशेषयात्रायानानां सेवा श्वः आरभते। 
  प्रथमसोपाने दिल्लीतः विविधराज्यानां १५ केन्दाणि गमनागमनसेवा कारयिष्यति। 'ओण् लैन्' द्वारा एव चिटिकावितरणम्। आरक्षणसुविधा अद्य सायं चतुर्वादने आरभते। 'ऐ आर् सि टी सी' अन्तर्जालकद्वारा चिटिकाग्रथनं कर्तुं शक्यते। 
  यात्रार्थं मानदण्डाः च प्रख्यापिताः। यात्रिकाः एकहोरायाः पूर्वमेव निस्थानं प्राप्तव्याः। मुखावरणं धार्यम्। यात्रायाः प्राक् शरीरतापं मापयिष्यति। रोगलक्षणरहितानामेव रेल्निस्थानस्य अन्तः प्रवेशः साध्यः।