OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 29, 2020

कायिकम् - भारतस्य प्रथमा विदेश 'डे नैट् टेस्ट्' स्पर्धा डिसम्बरमासे।
       सिड्नी> भारतस्य प्रथमा विदेश डे नैट् टेस्ट् स्पर्धा डिसम्बरमासे ओस्ट्रेलियमध्ये प्रचलिष्यति। एतत्सम्बन्ध्य समयसारिणी क्रिकेट् ओस्ट्रेलियसंस्थया प्रख्यापिता वर्तते। अस्यां श्रेण्यां चतस्रः स्पर्धाः वर्तन्ते। प्रथमा स्पर्धा डिसम्बरमासस्य ११ दिनाङ्कतः १५ दिनाङ्कपर्यन्तम् अड्लेय्ड्मैताने प्रचलिष्यति। समयसारिणी प्रख्यापिता चेदपि कोविड्१९ रोगस्य तदानीन्तनावस्थां निरीक्ष्य एव क्रिकेट्स्पर्धानां सञ्चालनं भविष्यति इत्यपि क्रिकेट् ओस्ट्रेलियसंस्थया प्रस्तावितम्।