OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 12, 2020

कोविड् प्रतिरोधाय २०लक्षंकोटिरूप्यकाणां धनसाहाय्यं प्रख्याप्य प्रधानमन्त्री।
  नवदहली> कोविड्१९ प्रतिरोधाय २०लक्षंकोटि-रूप्यकाणाम् 'आत्मनिर्भरभारताभिमान'नामकं आर्थिकोत्तेजकधनसाहाय्यं प्रख्याप्य प्रधानमन्त्री नरेन्द्रमोदी। अद्य अष्टवादने राष्ट्रम् अभिसम्बुद्ध्य एव प्रधानमन्त्रिणा धनसाहाय्यं प्रख्यापितं वर्तते। संख्येयं राष्ट्रस्य आभ्यन्तरोत्पादनस्य १०%  भवति। राष्ट्रस्य ह्रस्वनिक्षेपं कुर्वन्तः व्यापारिणः, कर्षकाः, दिवसवेतनकर्मकराः,मध्यवर्गजनाः इत्येतेषां कृते धनसाहाय्यमिदं लभ्यते। धनसाहाय्यं सम्बन्ध्य विशदीकरणं श्वः धनमन्त्री निर्मला सीतारामन् करिष्यति। सम्पूर्णकर्मविभागेभ्यः धनसाहाय्यस्य अस्य प्रयोजनं लभ्यते। व्यापारमण्डले सार्वदेशीयस्पर्धायै भारतं सज्जं करिष्यतीत्यपि प्रधानमन्त्रिणा उक्तम्। भारतस्य कोविड् प्रतिरोधः विश्वस्य कृते मातृका एव, भारतेन प्रतिदिनं द्विलक्षाधिकाः पि पि इ सञ्चयाः एन्९५ मुखावरणानि च उत्पाद्यन्ते , भारतस्य औषधानि विश्वस्य आश्वासदायकानि अभवन् - प्रधानमन्त्रिणा सूचितम्। अयं एकविशतितमः शताब्दः भारतस्य नाम्ना अभिधीयते इति प्रत्याशामपि प्रधानमन्त्री  नरेन्द्रमोदी प्राकटयत्। Link
https://twitter.com/narendramodi/status/1260243003479748611?s=09