OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 24, 2020

'गगनयान्' परियोजना पुनरारब्धा।
     बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः 'गगनयान्' इति स्वप्नपरियोजनायाः प्रारम्भप्रवर्तनानि पुनरारब्धानि। कोविड्१९ व्यापनस्य सन्दर्भे समापितः बहिराकाशसञ्चारिणां परिशीलनकार्यक्रमः एव रष्यदेशस्य रोस्कोमोस् नामके बहिराकाशगवेषणकेन्द्रे पुनरारब्धः वर्तते। दौत्याय सज्जीकुर्वतां  चतुर्णां भारतीयानां बहिराकाशसञ्चारिणां परिशीलनं पुनरारब्धम् इति कोस्मोस् अधिकृतैः सूचितम्। चत्वारः अपि आरोग्यसम्पन्नाः इत्यपि अधिकृतैः सूचितम्। आवश्यकसुरक्षाक्रमीकरणानि स्वीकृतानि वर्तन्ते च। बहिराकाशवाहनस्य नियन्त्रणं, विषयसम्बन्धं ज्ञानं, बहिराकाशगतिनिर्णयः इत्यादिषु अंशेष्वेव मुख्यं परिशीलनम्। २०२० फेब्रुवरिमासस्य दशमदिनाङ्के परिशीलनम् आरब्धमासीत्। रष्यदेशस्थं परिशीलनानन्तरं भारते अपि परिशीलनं पूर्तीकरणीयम्। ततः परमेव गगनयानयात्रा आरभ्यते इति ऐ एस्‌ आर् ओ अविशदयत्।