OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 20, 2020

वार्तामुक्तकानि। 
जूण् मासतः २०० वातानुकूलरहितरेल् यानानि।
नवदिल्ली >  आगामिमासस्य प्रथमदिनाङ्कादारभ्य २०० वातानुकूलरहिताः सविशेषाः रेल् यानसेवाःआरब्धुं रेल्मन्त्रालयेन निश्चितम्। यानानां मार्गक्रमः कालक्रमश्च अचिरादेव प्रख्यापयिष्यति। ओण्लैन् आरक्षणमेव भवेत्। 
  अधिनिवासितकर्मकराणां कृते 'श्रमिक्' रेल् यानानां संख्यां युगलीकर्तुमपि निश्चिमस्ति। 
 १० , +२ परीक्षाकेन्द्राणि परिवर्तयितुं सन्दर्भः।
अनन्तपुरी >  पिधानकाले विदूरस्थानेषु बन्धितानां एस् एस् एल् सि , तथा +२ छात्राणां कृते सुविधाप्रदानि परीक्षाकेन्द्राणि ओण्लैन् द्वारा चयितुम् अवसरः। गल्फादि प्रदेशेषु शिक्षां कृतवन्तः छात्राः इदानीं स्वदेशे विद्यन्ते चेत् अत्रैव अनुयोज्येषु स्थानेषु परीक्षां लेखितुं शक्यन्ते। आदेशः अचिरादेव भविष्यतीति सामान्यशैक्षिकनिदेशककार्यालयेन निगदितम्।
भारते कोविड्रोगिणः एकलक्षाधिकषड्सहस्रम्।
नवदिल्ली > भारते गतदिने ५८९० जनेषु कोविड् स्थिरीकृतम्। अनेन रोगिणां संख्या १,०५९८६ इत्युदगच्छत्। आहत्य मृत्युसंख्या तु ३,२१२। 
  महाराष्ट्रे रोगबाधिताः ३७,१५८ अभवन्। गुजराते तमिल्नाटे च विषाणुबाधितानां संख्या प्रतिराज्यं १२,००० अतीता। आभारतं ४०,८५६ रोगममुक्ताः जाताः। 
केरले अधिकानि शैथिल्यानि। 
अनन्तपुरी > पिधानस्य चतुर्थसोपाने प्रख्यापिते केरलं केन्द्रशासनस्य मार्गरेखामाधारीकृत्य अधिकानि शैथिल्यानि अनुमोदितानि। जनपदेषु आभ्यन्तरबस् यानसेवा निबन्धनाभिः आरब्धा। सुवर्णाभरणशालाः वस्त्रशालाः इत्यादयः उद्घाटयिष्यन्ति।