स्वदेशं प्रतिनिवर्तयितुं हसीना; कारागृहे भन्त्स्यतीति बङ्गलादेशप्रशाासनम्।
नवदिल्ली> भारते राजनैतिकाभयं समाप्य स्वदेशं बङ्गलादेशं प्रतिनिवर्तयितुं भूतपूर्वप्रधानमन्त्रिणी षैक् हसीना निर्णयं चकार। डिसम्बर मासस्य १६ तमे दिनाङ्के स्व राष्ट्रं प्रति गन्तुं पृथक् विमानसेवा आवश्यकीति बङ्गलादेशप्रशासनं प्रति हसीना निवेदितवती।
किन्तु यदि हसीना बङ्रगलादेशं प्राप्यते चेत् निगह्य कारागारे भन्त्स्यतीति तद्राष्ट्रप्रशासनेन निगदितम्।
