OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, May 8, 2017

बुद्धिशक्त्या  महावैज्ञानिकम् ऐन्स्टीन् महोदयम् अतिशेते द्वादश वयस्का रजौरी।
लण्टन्> बुद्धिशक्तिमापने अल्बर्ट् ऐन्स्टीन् स्टीफन् होक्किङ् वर्यौ अतिशेते भारतीयवंशो जाता रजौरी पवारः। ब्रिट्टण् राष्ट्रस्य चेषयर् देशे वासति सा।  ब्रिट्टनस्य प्रसिद्धस्य बुद्धिमापनकेन्द्रस्य मेन्स नाम संस्थायाः परीक्षायां ऐन्स्टीन्  होक्किङ् महोदयाभ्यां द्वौ अङ्गौ अधिकं प्राप्य तया विजिता। गते मासे माञ्चस्टर् नगरे एव परीक्षा आयोजिता। द्विषष्ठ्यधिकशतम् (१६२)अङ्काः तया प्राप्ताः।
अस्याः पिता डॉ सुराज् कुमारः मासञ्चर् विश्वविद्यालयस्य गवेषक-वैज्ञानिकः भवति।   माहाराष्ट्रायाः बारामती एव अस्याः जन्म देशः।
अष्टादश वर्षेभ्यः अधोजानां विभागे प्राप्ता अधिकः अङ्कः भवति अयम्। प्रतिभामापनाय निर्दिष्टाङ्कः चत्वारिंशत् अधिकशतमेव। षट्चत्वारिंशदधिक नव शतोत्तर (१९४६)तमे स्थापितस्य चरित्रे विंशतिसहस्रं संख्याकाः विद्यार्थिनः १६२ अङ्कः प्राप्ताः सन्ति।
नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते।
जम्मु> प्रधानमन्त्रिणा नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते इति जम्मूकाश्मीररा ज्यस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति। काश्मीर राज्ये शान्तिं प्रापयितुं   आवश्यकं निश्चयदार्ढ्यम् आज्ञाशक्तिश्च केवलं  मोदिनः सकाशे एव  वर्तते। काश्मीरकीं समस्यां परिहर्तुं यदि मोदिवर्यः यं किमपि निर्णयं स्वीकरोति चेत्  तेन सह सम्पूर्णं राष्ट्रं तिष्ठति एव। मोद्या सह जनानां सहवर्त्तित्वं साहाय्यं च वर्तते। तदेव तस्य शक्तिः।  २०१५ तमे लाहोर गन्तुं पाक्किस्थान प्रधानमन्त्रिणं द्रष्टुं मोद्या स्वीकृतं निर्णयं तस्य शक्तिरेव सूचयति मेहबूब अवदत्।

Sunday, May 7, 2017

दिल्ल्यां विषवायुपरिस्रवः - ४५० छात्राः आतुरालयप्रविष्टाः।
नवदिल्ली> दक्षिणपूर्वदिल्ल्यां विषवायोः परिस्रवेण अस्वस्थबाधिताः पञ्चाशदधिक चतुश्शतं विद्यालयीयछात्राः नव अध्यापकाश्च आतुरालयं प्रविष्टाः तुग्लक्काबादे राणी झान्सी सर्वोदय कन्याविद्यालयः , सर्वकार बालिका सीनियर् सेक्कन्टरि विद्यालयः इत्येतयोः विद्यालययोः छात्राः एव अस्वस्थबाधिताः अभवन्। सर्वे सुरक्षिता इति मुख्यमन्त्रिणा अरविन्द् केज्रिवालेन निगदितम्।
     शनिवासरे प्रभाते विद्यालययोः समीपस्थायाः वायुसम्भरणशालायाः परिस्रवणमभवत्। चीनादेशादानीतं कीटनाशिनीनिर्माणोपकारकं क्लोरोमीतैल् पैरिडिन् नामकं वायुरूपं वस्तु एव दुरन्तकारणमभवत्
योगिन: मार्गे चौहान: -  मध्यप्रदेशे २५ (पञ्चविंशति:) विरामदिनानि  निष्कास्यन्ते।
       भोपाल:>उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथ: सार्वजनीन-विरामदिनानि ऊनीकृतवान्; शासनक्रममेतम् अनुसृत्य मध्यप्रदेशसर्वकारेणापि २५ (पञ्चविंशति:) विरामदिनानि निष्कास्यन्ते।  प्रमुखानां जनन,मरण , वार्षिकदिनेषु दीयमानविरामा:  एव  निष्कास्यन्ते । २० (विंशति:) त: २५ (पञ्चविंशति:) विरामदिनानि एवं निष्कासयितुम् उद्दिष्टानीति शिक्षामन्त्री  दीपक जोशी उक्तवान् । भगतसिंहस्य चरमवार्षिकदिने विरामदानेन छात्रा:  तमुद्दिश्य किं पठेयु:?, तथा च विरामदानापेक्षया  तत् कस्य जन्म, चरमवार्षिकं वा भवतु; तेषां जीवनं सम्भावनाश्च  छात्रान् पाठयाम: इति दीपक जोशी योजितवान्।   कानि कानि विरामदिनानि निष्कासयेयु: इति आलोचनायाम् वर्तन्ते।  एकस्मिन् शैक्षणिकवर्षे विरामदिनानि ३५ ( पञ्टत्रिंशत् ) इति ऊनीक्रियन्ते इत्यपि सूचना अस्ति।  मध्यप्रदेशसर्वकारस्य सार्वजनीनदिनदर्शिकानुसारं ७६ (षट् सप्तति:) विरामदिनानि सन्ति।  एतेषु ५४ (चतुष्पञ्चाशत्) नियन्त्रितविरामाश्च अन्तर्भवन्ति।  एकस्मिन् अध्ययनवर्षे १५० (सार्धशतम्) प्रवृत्तिदिनानि सन्ति  तानि च १८५ (पञ्चाशीत्युत्तरशतम्) इति वर्धयितुमेव  सर्वकारै: लक्षीक्रियन्ते।।
सेना रहस्याणि अपहृताः त्रयः पाक्क् चाराः गृहीताः।
लख्नौ >उत्तरप्रदेश-भीकरविरुद्ध संघस्य तथा महाराष्ट्रा आरक्षकाणां च आसूत्रिते प्रवर्तने त्रयः पाक्किस्थान चाराः गृहीताः।  ते ऐ एस् ऐ प्रवर्तकाः इति संशयो वर्तते। अफ्ताफ् अलि, अल्ताफ् खुरेषि, जावेद् इक्बाल् एते गृहीतवन्तः।  उत्तरप्रदेशस्य फैसाबाद्तः गृहीतस्य अफ्ताबस्य वाचः अवलम्ब्य बुधवासरे रात्रौ मुम्बाईतः अन्ये गृहीतवन्तः। अफ्ताबस्य दूरवाण्यां फैसाबाद् मध्ये वर्तमानस्य सेनाकेन्द्रस्य चित्राणि आसन्। अमृतसर देशस्य सेनाप्रस्थानानि एषः पाक्क् हैक्कम्मीषणरं निवेदिचवान्। भारतस्य प्रमुखानि मन्दिराणि तथा तीर्थस्थानानि च आक्रमितुं ते नियुक्ताः इति आरक्षकाः वदन्ति। खुरेष्याः गृहात् ७१.५७ लक्षं रूप्यकाणि अपि गृहीतवन्तः।
नीट् परीक्षा अद्य प्रचलति।
अनन्तपुरी>वैद्यक दन्तशास्त्र प्रवेशनार्थं क्रियमाणा अखिलभारतीयप्रवेशनपरीक्षा [नीट्] अद्य प्रचाल्यते। राष्ट्रस्य १०३ नगरेषु २२०० परीक्षाकेन्द्राणि वर्तन्ते। केरले अनन्तपुरी , कोच्ची , कोष़िक्कोट् , कण्णूर् , तृश्शिवपेरूर् इत्येतेषु नगरेषु परीक्षाकेन्द्राणि सन्ति। 
   अस्मात् संवत्सरादारभ्य आराष्ट्रं  वैद्यक दन्तीय कलालयेषु प्रवेशनार्थं नीट् नामिका एकीकृतप्रवेशनपरीक्षा अवश्या अस्ति।
सर्वोच्चन्यायालयस्य आदेशे टि पि सेन्कुमारस्य  पुनर्नियुक्तिः।
नवदिल्ली> केरलसर्वकारस्य याचिकां पुनर्याचिकां च निरस्य सर्वोच्चनीतिपीठस्य कर्कशादेशम् अनुसृत्य गतसंवत्सरे स्थानभ्रष्टः टि पि सेन्कुमारः  केरलस्य आरक्षकाधिकारिस्थाने पुनर्नियुक्तः। पिणरायि विजयस्य नेतृत्वे केरले नूतनसर्वकारस्य स्थानारोहणमनुबन्ध्य आसीत्  डि जि पि स्थानात् सेन्कुमारस्य स्थानभ्रंशः। तद्विरुध्य सः सर्वोच्चन्यायालये याचिकां समर्पितवान्।
    व्यवहारे सेन्कुमारः अनुकूलविधिं सम्पादितवानपि सर्वकारः व्यक्ततायाचिकां समर्प्य नियुक्तिं विलम्बीकर्तुम् उद्युक्तोsभवत्। नीतीपीठं व्यक्ततायाचिकां निरस्य सर्वकारे भर्त्सिते सेन्कुमारस्य नियुक्तिं कृत्वा मुख्यमन्त्रिणः आदेशः आगतः।
भारते सर्वत्र संस्कृतप्रचरणान्दोलनस्य कालः ।
पि आर् नाथः संस्कृतप्रशिक्षण-शिबिरस्य उद्घाटनं करोति।
मलप्पुरम् > आभारतं प्रचलति संस्कृतान्दोलनम्। प्रमुखेषु वार्तामाध्यमेषु संस्कृत संबन्धिन्यः वार्ताः नागच्छन्ति चेदपि वार्ताप्रकाशने वार्तामाध्यमाः श्रद्धालवः एव। संस्कृतस्य प्राधान्यम् अस्मिन् अन्तर्जालयुगेsपि अस्ति इति जनानां संस्कृताभिमुख्यं निदर्शनमेव।
भारतस्य विविधेषु प्रदेशेषु संस्कृतभारत्याः प्रयत्नेन संस्कृतशिक्षा प्रचलति। सर्वकारस्य साह्यं विना संस्कृतभारत्या: कृता:प्रयत्ना: श्लाघनीया:।
मलप्पुरदेशे आरब्धे संस्कृतशिक्षक-प्रशिक्षण-सत्रे ४१ शिक्षार्थिनः भागं स्वीकृतवन्तः।  सत्रस्य उद्‌घाटनं साहित्यनिपुणेन पि आर् नाथन् वर्येण कृतम्। स्वागतभाषणं नारायणन् अटितिरिप्पाट् वर्यः अकरोत्‌ । पार्वतीनम्बीशन् समारोहस्य अध्यक्षा आसीत्। मेय् मासस्य षोडशदिनाङ्के सत्रं सम्पूर्णं भविष्यति।

Saturday, May 6, 2017

जीवति संस्कृतं संस्कृति सम्पन्ना- वेङ्कय्यनायिडु।
नव दिल्ली>संस्कृतभाषायाम्  संपादिता  प्रथमा पुस्तकमाला "स्वच्छ काननस्य कथा, मातामह्या  कथिता" गते गुरुवासरे नवदेहल्यां केंद्रीय-सूचना-प्रसारण-मंत्रिणा श्री वेंकैयानायडू-महोदयेन लोकर्पिता जाता। संस्कृति सम्पन्ना संस्कृतभाषा जीवतिI अतः बहूनि पुस्तकानि संस्कृतभाषायाम् अविर्भवन्ति च इति वेङ्कय्यनायिडु महोदयेन उक्तम्।
भारत-सर्वकारस्य सूचना-प्रसारण-मंत्रालयान्तर्गत-प्रकाशनविभागेन प्रकाश्यमाना दशाधिक- पुस्तकानां मध्ये एषा प्रथमा पुस्तकमाला अस्ति।
हिंदी-भाषायां डॉ. मधु-पन्त-विरचिता "स्वच्छ जंगल की कहानी, दादी की जुबानी" नाम्नी पुस्तकमाला संस्कृते स्वनामधान्येन विख्यात- विदुषा डॉ. बलादेवानंद-सागर-महाभागेन अनूदिता।
एषा पुस्तकमाला प्रकाशनविभागस्य "एक भारत-श्रेष्ठ भारत" शृंखलान्तर्गतं 15-भारतीय- भाषासु अनूदिता। बालसहज-काव्यरूप- पुस्तकेषु एतेषु स्वच्छता-आचारणाय प्रोत्साहनं प्रदीयते।
एतेषां पुस्तकानां गुजराती-भाषिकोsनुवाद: अपि डॉ.बलदेवानन्द-सागरेण विहितोsस्ति ।
 एस् एस् एल् सि २०१७ - विजयः प्रतिशतं ९५.९८ 
कोच्ची> केरले अध्ययनप्रणालीपरिष्करणानन्तरं प्रथमतया आयोजितायाः दशमीकक्ष्यापरीक्षायाः मूल्यनिर्णयफलं प्रसिद्धीकृतम्। सार्धचतुर्लक्षाधिकं छात्रेषु परीक्षां लिखितवत्सु सप्तत्रिंशत्सहस्राधिकचतुर्लक्षं छात्राः उपरिपठनार्हतां प्राप्तवन्तः। [प्रतिशतं ९५.९८]।
   सप्तषष्ट्यधिक नवशतोत्तर विंशतिसहस्रं छात्राः सर्वेषु विषयेषु   ए-प्लस् श्रेणीं प्राप्तवन्तः।[ प्रतिशतं ४.६]। प्रतिशतविजये पत्तनंतिट्टा जिल्ला प्रथमस्थानं प्राप्तवती - ९८.८२ प्रतिशतम्।अन्तिमस्थाने तु वयनाट् जिल्ला - ८९.६५ प्रतिशतम्। ११७४ विद्यालयेषु सर्वे छात्राः विजयीभूताः। तेषु सर्वकारविद्यालयानां संख्या ४०५ भवन्ति।


 निर्भया विषये मृत्युदण्डनम् अङ्गीकृतम्। 
नवदिल्ली > राष्ट्रवित्रस्ते निर्भयायाः उपरि कृतबलात्कारहत्याविषये यत् उच्चन्यायालयेन विहितं  चतुर्णामपि अपराधिनां मृत्युदण्डनं तत् सर्वोच्चन्यायालयेन अङ्गीकृतम्। मृत्युदण्डः निराकरणीयः इति अपराधिभिः समर्पितम् आवेदनं नीतिपीठेन निरस्तम्।  निर्लज्जं राक्षसीयम् अतिक्रूरं च आक्रमणमेव अपराधिभिः कृतमिति न्याय. दीपक् मिश्रा वर्यस्य अाध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन उक्तम्। मृत्युदण्डं  विधातुं युक्तः अपूर्वेषु अपूर्वंः व्यवहारः भवत्येष इति नीतिपीठेन निरीक्षितम्।
    अपराधिनां कृते उच्चन्यायालयेन  विहितं मृत्युदण्डं निरस्य आजीवनान्तः कारागारवासः कल्पनीयः इति अमिक्कस् क्यूरि न्यायाधीशैः परिदेवनं कृतमित्यतः आकाङ्क्षापूर्वमेव राष्ट्रं विधिं प्रतिक्ष्यमाणम् अवर्तत।