OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 9, 2026

 रष्यायाः तैलेन्धनं क्रियते चेत् 

शुल्कः ५००% भविष्यति। 

उपरोधविधेयकाय ट्रम्पस्य अङ्गीकारः। 

भारताय प्रतिकूलः। 

वाषिङ्टणः> यानि राष्ट्राणि रष्यायाः तैलेन्धनं क्रियन्ते तेभ्यः आयातशुल्करूपेण ५००% वर्धनं कारयिष्यतीति डोनाल्ड ट्रम्पः प्रस्तुतवान्। एतदर्थं रिपब्लिकन् सदस्येन लिन्ड्सि ग्रहामेन आनीतम् उपरोधविधेयकं ट्रम्पेन अङ्गीकृतम्। 

  रूसीयेन्धनं क्रीयमाणेषु राष्ट्रेषु द्वितीयस्थानं ऊढमानाय भारताय एषः प्रक्रमः प्रतिकूलाय भविष्यति। चीनः भवति रष्यायाः बृहत्तमः तैलेन्धन उपभोक्ता। न्यूनतरमानेन रूसीयेधनक्रयं क्रियमाणानि भारतं-चीन-ब्रसीलादिराष्ट्राणि क्रयात्  निराकर्तुं प्रेरयतीति विधेयकस्य लक्ष्यम्।

 प्रकृतिसंरक्षकः माधव गाड्गिलः यशश्शरीरः।


 मुम्बई> प्रकृतिसंरक्षणार्थं मनः वपुश्च समर्प्य प्रकृतिद्रोह्ं  विरुध्य कलहं कृतवान्  पर्यावरणशास्त्रज्ञः माधव धनञ्जय गाड्गिलः बुधवासरे रात्रौ पूनैय्यां दिवंगतः। ८३ वयस्कः सः कतिपयकालेन परिचर्याविधेयः आसीत्। 

  ग्रामीणगोत्रविभागेषु  जीवयापनं कृतवान् माधव गाड्गिलः तैः सह व्यवहृत्य गोत्रपारम्पर्यस्य अगाधं याथार्थ्यमवगतवान्। अत एव तस्य जीवनं प्रकृतिसंरक्षणाय समार्पयत्। 

  १९८१ तमे पद्मश्री, २००६ तमे पद्मविभूषणं, २०२४ तमे संयुक्तराष्ट्रसभायाः 'Champion of Earth' इत्यादयः राष्ट्रिय-अन्ताराष्ट्रियपुरस्कारैः  सः समादृतः।

Thursday, January 8, 2026

 ऊन १९ एकदिनक्रिकट्

परम्परां स्वायत्तीकृत्य भारतम्।

आरोण् जोर्ज्, सूर्यवंशी इत्यनयोः शतकप्राप्तिः।

आरोण् जोर्जः [वामे], वैभवश्च। 

बेनोनी>  दक्षिणाफ्रिकां विरुध्य ऊननवदशवयस्कानाम् एकदिनक्रिकट्

परम्परायाः अन्तिमस्पर्धामपि विजित्य भारतं परम्परां स्वायत्तीकृतवत् [३ - ०]। भारतदलस्य नायकः वैभवसूर्यवंशी, केरलीयः आरोण् जोर्जः च शतकं प्राप्तवन्तौ। २३३ धावनाङ्कानाम् उज्वलविजय एव भारतेन संप्राप्तः। नायकः वैभव सूर्यवंशी ७४ कन्दुकेभ्यः १२७ धावनाङ्कान् सम्पादितवान्। प्रारम्भक्रीडकरूपेण ताडनं कृतवान् आरोण् जोर्जः १०६  कन्दुकेभ्यः ११८ धावनाङ्कान् सम्प्राप्तवान्। 

  प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु ३९३/७। दक्षिणाफ्रिका ३५ क्षेपणचक्रेषु १६० धावनाङ्कैः सर्वे बहिर्नीताः।

 ग्रीन् लान्डं लक्ष्यीकृत्य अमेरिकायाः प्रक्रमः। 

वाषिङ्टणः> वेनस्वेलायां यू एस् राष्ट्रस्य सैनिकप्रक्रमस्य अनन्तरं विश्वस्मिन् बृहत्तमं द्वीपं ग्रीन् लान्डं स्वायत्तीकर्तुं  यत्नः यू एस् राष्ट्रेण प्रबलीक्रियते। यूरोपीयराष्ट्रस्य डेन्मार्कस्य अधीने वर्तमानः स्वयंशासनप्रदेशः भवति ग्रीन् लान्डः। एनं करस्थीकर्तुमुद्दिश्य डोनाल्ड ट्रम्पः चर्चां करोति, अवश्यं चेत् सैनिकप्रक्रमः अपि परिगण्यते इति च 'बी बी सी' माध्यमेन वृत्तान्तीक्रियते। 

  यू एस्, यूरोप्, रष्या इत्येतेषां मध्ये अस्ति ग्रीन् लान्डस्य स्थानम्। यू एस् तः ५००० कि मी दूरे उत्तर अत्लान्टिकसमुद्रे वर्तते। इतः रष्यामपि एतावद्दूरमस्ति। रष्यातः आक्रमणं भविष्यति चेत् यू एस् राष्ट्रस्य प्रत्याक्रमणाय अनुयुक्तं स्थानमिति ग्रीन्लान्डस्य प्राधान्यम्।

 पञ्चसु राज्येषु निर्वाचनाय सिद्धता समारब्धा। 

नवदिल्ली> मेय्मासस्य सप्तमदिनाङ्कात् पूर्वं विधानसभानिर्वाचनानि विधातुं राष्ट्रिय निर्वाचन आयोगेन पर्यालोचना  समारब्धा। केरलं, तमिलनाट्, पोण्टिच्चेरी, पश्चिमवंगः, असमः इत्येतेषां राज्यानां मुख्यनिर्वाचनाधिकारिभिः सह [CEOs] केन्द्र उपनिर्वाचनायोगः चर्चां कृतवान्। निर्वाचनस्य पूर्वसिद्धतां पुरस्कृत्य आसीत् चर्चा। 

केरले एप्रिल् मासे द्वितीयसप्ताहे निर्वाचनं विधातुं साध्यता वर्तते। फेब्रुवरिमासस्य प्रथमसप्ताहे  मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः, आयोगौ डो  सुखविन्दर् सिंह सन्धुः, डो विवेक जोशी च पञ्चसु राज्येषु पर्यटनं करिष्यन्ति।

Wednesday, January 7, 2026

 बङ्गलादेशे पुनः न्यूनपक्षजातीयः    हतः। 

धाक्का> बङ्गलादेशे पुनः न्यूनपक्षजातीयः  संघहत्याविधेयः अभवत्। नर्सिङदि नगरे नित्योपयोगवस्तूनि विक्रियमाणः आपणिकः मोणी चक्रवर्तीनामकः  हिन्दुजातीयः एव सोमवासरस्य रात्रौ अज्ञातसंघस्य छुरिकाप्रयोगेण हतः। अपराधिभ्यः रक्षिपुरुषैः मार्गणमारब्धम्। 

  जसोर् जनपदे प्रादेशिकदिनपत्रस्य प्रकाशकं व्यापारिणं च हिन्दुयुवकं भुषुण्डिप्रयोगेण हननस्य होराणामाभ्यन्तरे आसीदियं हत्या प्रवृत्ता। एकमासाभ्यन्तरे बङ्गलादेशे हत्याविधेयः पञ्चमः हिन्दुधर्मीयः भवति मोणी चक्रवर्ती। षेख् हसीनायाः प्रशासनपतनानन्तरं न्यूनपक्षवंशीयान् विरुध्य आक्रमणानि वर्धन्ते एव।

 इराने प्रक्षोभः - मृत्युसंख्या ३५।

दुबाय्> मूल्यवर्धनं, रियालस्य मूल्यशोषणम् इत्यादिभिः कारणैः सप्ताहाधिकं यावत् इराने सम्पद्यमाने प्रशासनविरुद्धप्रक्षोभे अद्यावधि ३५ जनाः हताः। यू एस् आधारीकृत्य प्रवर्तमानं मानवाधिकारसंघटनं 'ह्यूमन् रैट्स् आक्टिविस्ट्स्' [Human Rights Activits'] नामकेनैव इयं गणना। प्रक्षोभस्य आधारेण १२०० जनाः निगृहीताश्च। 

  इरानस्य ३१ अंशेषु २७ संख्याकेषु प्रक्षोभः व्यापृतः। २५० स्थानेषु प्रतिषेधान्दोलनानि प्रवृत्तानीति संघटनेन निगदितम्। २५० रक्षिपुरुषाः    प्रतिषेधकैः सह प्रतिद्वन्द्वे व्रणिताः इति च सूच्यते।

 दिल्ली मेट्रो सेवकनिवासे अग्निबाधा - त्रयः मृताः।

नवदिल्ली> 'दिल्ली मेट्रो रेल् कोर्परेषन्' संस्थायाः वृत्तिकराणां निवासस्थाने [Staff Quarters] दुरापन्नायाम् अग्निबाधायां त्रयः दग्धाः। उत्तरपश्चिमदिल्ल्याम्  आदर्शनगरे मज्लिस् पार्क् मेट्रो निस्थानस्य समीपं वर्तमाने वृत्तिकावासस्य पञ्चमश्रेण्यां कुजवासरे प्रत्युषसि  आसीत् अग्निबाधा। अजय विमल् [४२], नीलम् [३८], तयोः पुत्री जान्वी [१०] इत्येते मृत्युमुपगताः।

 राज्यवार्ताः - दिल्ली।

सोणियागान्धी आतुरालयं प्रवेशिता।


नवदिल्ली> कोण्ग्रस् दलस्य विचारसभानेत्री सोणियागान्धी गंगाराम् आतुरालयं प्रवेशिता। दिल्ल्यां पर्यावरणमलिनीकरणतीव्रतया कठिनेन कासेन पीडिता अस्ति सोणिया इति सूच्यते। किन्तु तस्याः स्वास्थ्यविषये आशङ्का नास्तीति आतुरालयाधिकारिभिः निगदितम्।

 केरलीयछात्राः 'रोबोटिक् अध्ययनम्' आरब्धवन्तः।


अनन्तपुरी> केरले दशमकक्ष्याछात्राः ऐ टि परिशीलनस्य अंशतया यन्त्रमनुष्यविज्ञाने [Robotic study] अध्ययनमारब्धवन्तः। सर्वकारीय-साह्याधिष्ठितनिजीयविद्यालयेषु [Govt & Aided schools] सार्धचतुर्लक्षं विद्यार्थिनः अस्मिन् परिशीलने भागं कुर्वन्ति। 

  दशमकक्ष्यायां नूतने ऐ टि पाठपुस्तके रोबोटिक्स् पाठाः विद्यन्ते। तेषां प्रायोगिकं परिशीलनं दातुं लक्ष्यमाणा सप्ताहद्वयात्मिका शिल्पशालायाः उपायकल्पलं कृतमिति  'कैट्' इति ऐ टि परिशीलन संस्थायाः अधिकारी अन्वर् सादत्तवर्यः निगदितवान्। विद्यालयेषु वर्तमानानां 'लिटिल् कैट्स् समितीनां' नेतृत्वे सन्ति परिशीलनशिल्पशालाः।

 राज्यवार्ताः - केरलम्।

भूतपूर्वमन्त्री इब्राहिं कुञ्ञ् दिवंगतः। 


कोच्ची> केरलस्य भूतपूर्वः मन्त्री मुस्लींलीग् इति राजनैतिकदलस्य नेता च इब्राहिं कुञ्ञ् गतदिने दिवंगतः। ७३ वयस्कः सः कतिपयदिनेभ्यः रोगबाधया आतुरालये परिचर्यायामासीत्। 

  एरणाकुलं जनपदस्थात् मट्टाञ्चेरी, कलमश्शेरी मण्डलद्वयात् वारचतुष्टयं विधानसभासदस्यरूपेण चितः इब्राहिं कुञ्ञः दशवर्षाणि मन्त्रिस्थानं च अवहत्। तस्य अन्त्यशुश्रूषाः अद्य सम्पत्स्यते।

Tuesday, January 6, 2026

 बङ्गलादेशे माध्यमप्रवर्तकः भुषुण्डिमारितः। 

धाक्का> प्रेशिकदिनपत्रिकायाः सक्रियमाणः प्रकाशकः [Acting Editor] कर्मशालास्वामी च युवकः राणा प्रतापनामकः [४५] जषोरजनपदे अज्ञातैः भुषुण्डिप्रयोगेण मारितः। सोमवासरे आसीदियं दारुणघटना प्रवृत्ता। 'बिडि खोबार्' इति प्रादेशिकदिनपत्रिकायाः अधिपः अयं कोपालिया विपणिनगरे Pratap Ice Factory' इति कर्मशालास्वामी च अस्ति। अस्य नाम्नि बहूनि अपराधप्रकरणानि आसन्, सर्वेषु तेषु निरपराधत्वेन विमोचितः आसीदिति पत्रिकायाः वार्ताप्रकाशकः अब्दुल् कासिम् इत्यनेन प्रोक्तम्।

 वेनस्वेलाप्रकरणे भारतम् 'अगाधाम् आशङ्कां' प्राकटयत्।

नवदिल्ली> वेनस्वेलाराष्ट्रे अमेरिकया कृते अधिनिवेशे भारतस्य प्रतिकरणे अवधानपूर्णा श्रद्धा। भारतस्य मनः वेनस्वेलीयजनतया वर्तते इत्यपि प्रकरणे 'अगाधा आशङ्का' अस्तीति विदेशकार्यविभागेन निगदितम्। 

  यू एन् अंगीकृतप्रमाणानाम् अन्ताराष्ट्रनियमानां च उल्लंघनमेव ट्रम्पेन वेनस्वेलायां कृतमिति अन्ताराष्ट्रसमूहेन सह भारतेनापि सुज्ञातं तथापि तमधिकृत्य भारतस्य मौनं विपक्षदलीयैः विमृश्यते। परन्तु यू एस् -भारतयोः व्यापारसन्धौ जातः नयतन्त्रप्रतिसन्धिरेव भारतमौनस्य हेतुः इति विदेशकार्यकुशलैः गण्यते।

 वेनस्वेलायाः अधिकारः उपराष्ट्रपतिः डेल्सी रोड्रिग्स् इत्यस्यै समर्पितः।


कराक्कस्> वेनस्वेलायाः राष्ट्रपतिः निक्कोलास् मडुरो वर्यस्य कारागृहबन्धनेन राजनैतिकस्तम्भने जाते राष्ट्रे उपराष्ट्रपतिः डेल्सी रोड्रिग्स् तात्कालिकाधिकारे नियुक्ता।  राष्ट्रपतेः असान्निध्ये अधिकारः उपराष्ट्रपतौ भवितव्यमिति  प्रशासनसंविधानानुसारं राष्ट्रस्य सर्वोच्चन्यायालयेन तस्यै अधिकारोपसंक्रमणं विधत्तम्। 

  २०१८ तमे वर्षे वेनस्वेलायाः उपराष्ट्रपतिपदं प्राप्तवती डेल्सी मडुरोवर्यस्य  प्रबला अनुयायिनी अस्ति। वित्त-तैलविभागस्य मन्त्रिणी अस्ति इत्यतः वेनस्वेलायाः तैलव्यापारस्योपरि यू एस् राष्ट्रेण विधत्तमुपरोधम् प्रतिरुध्य यत्नः कृतः इत्यमुं  पाटवं पुरस्कृत्य राष्ट्रस्य शार्दूल इति मडुरोवर्येण बहुमानिता आसीत्।



Monday, January 5, 2026

 राजस्थाने विद्यालयेषु दैनंदिपत्रिकावाचनम् अनिवार्यं कारितम्। 

जयपुरं> वाचनशीलं प्रोत्साहयितुं छात्रेषु सामान्यावबोधं वर्धापयितुं च  सर्वेषु सर्वकारविद्यालयेषु दिनंप्रति पत्रिकावाचनं राजस्थानसर्वकारेण अनिवार्यं कारितम्। प्रभाते छात्रसभायां छात्रैः न्यूनातिन्यूनं दशनिमेषाः पत्रिकाः वाचयितव्याः। 

  समकालिकविषयाणां परिचायनमेव अनेनोद्दिश्यते। पत्रिकावाचनशीलेन सामान्यविषयान् अवलोकयितुं समर्थाः भवेयुरिति आदेशे स्पष्टीक्रियते। उत्तरप्रदेशे अपि पत्रिकावाचनम् अनिवार्यं कारितम्।

 मडुरो ब्रूक्लिन् कारागृहे। 

निगडबद्धः निकोलास् मडुरो।

न्यूयोर्क्> डोनाल्ड ट्रम्पस्य निर्देशानुसारं यू एस् सैनिकैः निगृहीतः वेनस्वेलराष्ट्रपतिः निकोलास् मडुरो तस्य पत्न्या सह  न्यूयॉर्कस्थे ब्रूक् लिन् इत्यत्र  कुप्रसिद्धे 'मेट्रोपोलिटन् डिटन्षन् सेन्टर्' [Metropolitan Detention Center- MDC] नामके कारागृहे बद्धः। यू एस् राष्ट्रे बृहत्तमः 'फेडरल् कारागारो' भवत्ययम्। 

  १६०० संख्याकाः अपराधिनः अत्र न्यायवादं मार्गमाणाः सन्ति। उन्मादकवस्तुविपणनं, भीकरवादः इत्यादिषु अपराधेषु निगृहीतेषु तेषु कुप्रसिद्धाः अन्ताराष्ट्रियापराधिनः अपि वर्तन्ते। उन्मादकवस्तुविपणनमधिकृत्य नैके अपराधाः मडुरोवर्यस्य उपरि आरोप्य एव तस्य कारागारबन्धनम्। हस्तनिगडेन बद्धस्य मडुरोवर्यस्य वीडियोदृश्यानि बहिरागतानि। अधिकारिणः प्रति 'नववत्सराशंसाः' उक्त्वा एव तस्य कारागृहगमनम्।

Sunday, January 4, 2026

 

सार्थकयोगशाला-योगासनक्रीडाकादम्या: भव्यम् उद्घाटनम् ।

कण्वनगरी अधुना योगकारणात् सार्थकतामवाप्नोत् - ऋतुखण्डूरी (विधानसभाध्यक्षा)

योगक्षेत्रे राकेशकण्डवालस्य विद्यते महायोगदानम्  

-कुलदीपमैन्दोला

कोटद्वारम्> सार्थकयोगशालायोगासनक्रीडाकादम्याः विधिवतं भव्यं च उद्घाटनं माननीयाविधानसभाध्यक्षया श्रीमती-ऋतुखण्डूरी-भूषणमहाभागया करकमलैः सम्पन्नम्। अस्मिन् शुभावसरे राजनीतिक्षेत्रात् आरभ्य शिक्षाजगत्, शिक्षकसंघाः, क्रीडा–योगक्षेत्रे सम्बद्धाः च अनेके गणमान्यजनाः उपस्थिताः आसन्।

उद्घाटनसमारोहस्य अवसरे प्रसिद्धयोगप्रेमिभिः सह प्रायः द्विशतपञ्चाशत् (२५०) जनानां गरिमामयी उपस्थितिः कार्यक्रमं दिव्यं भव्यं च अकरोत्। अस्मिन् अवसरे  राजगौरव:,  नमनभटनागर: (जिलापरामर्शक:), मम युवाभारत – युवा-कल्याण-क्रीडा-मन्त्रालयः, भारतसरकारः), गुरुकुलमहाविद्यालय-कण्वाश्रमस्य पूज्यः स्वामीजी, श्री मनमोहननौटियालमहाभागः (प्रधानाचार्यः), आधुनिकभीमवैदिकगुरुकुलः, कण्वाश्रमः), अन्ताराष्ट्रिय पादकन्दुक-प्रशिक्षक: श्री सुनीलरावतमहाभागः तथा "डिस्कवर-उत्तराखण्ड 24 न्यूज "  इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तमहाभागः

 २० मावोवादिनः आत्मसमर्पिताः। 

हैदराबादः> तेलङ्कानराज्ये २० मावोवादिनः कमान्डर् पदीयः देव इति कथ्यमानः बद्से सुक्का इत्यस्य नेतृत्वे आरक्षकाणां पुरतः  आत्मसमर्पिणं कृतवन्तः। हतः मावोवादिनेता माधवी हिद्मा इत्यस्य अनुचरः अस्ति बद्से।