OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, January 24, 2026

 टि २० विश्वचषकात् बङ्गलादेशः बहिर्गमिष्यति। 

भारते न क्रीडिष्यतीति निर्णीतम्। 

नवदिल्ली> आगामिमासे प्रचाल्यमाने टि २० विश्वचषके भारते न क्रीडिष्यतीति बङ्गलादेशस्य निर्णयहेतोः तद्राष्ट्रं विश्वचषकात् बहिर्नेष्यति। तत्स्थाने स्कोट्लान्ट् राष्ट्रम् अन्तर्भावयितुं ऐ सि सि संस्थया निश्चितम्। 

  सुरक्षाकारणेन भारते क्रिडितुं न शक्यते,तस्मात् भारतस्थस्पर्धाः श्रीलङ्कां परिवर्तनीयमिति बङ्गलादेशीय क्रिकट् समित्याः निवेदनं ऐ सि सि संस्थया निरस्तम्।