OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 25, 2026

 केरलम्।

न्यायाधिपः सिरिजगः दिवंगतः। 


कोच्चि>  राज्यस्य उच्चन्यायालये भूतपूर्वन्यायाधिपः एस् सिरिजगः [७४] कोच्चीनगरस्थे स्वभवने दिवंगतः अभवत्।  वीथीशुनकाक्रमणविधेयेभ्यः   क्षतिहानिपरिहारदानक्रमं समर्पितुं सर्वोच्चन्यायालयेन नियुक्तः एकांगायोगः सः आसीत्। 

  कोच्ची 'नुवाल्स्' [National University of Advanced Legal Studies] इत्यस्य कुलपतेः कार्यभारं निर्वहति स्म सिरिजगनवर्यः। वर्तमाने शबरिगिरि उन्नताधिकारसमित्याः अध्यक्षपदमलङ्कुर्वन् आसीत्।