OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 25, 2026

 योगः मानसिकशान्तेः, आत्मानुशासनस्य च आधारः -स्वामीविश्वपालजयन्त:

कण्वाश्रमे योगप्रतियोगितायाः भव्यम् आयोजनमम्

- कुलदीपमैन्दोला। 

    कण्वाश्रमे वैदिकगुरुकुलमहाविद्यालये वैदिकवटुभिश्च सार्थकयोगशालाद्वारा, क्रेडिलपब्लिकस्कूल् इत्यनेन च गुरुकुलमहाविद्यालयज्वालापुरहरिद्वारद्वारा च  छात्रछात्रामाध्यमेन विविधाः योगासनप्रदर्शनं कृतम्। अस्यां योगप्रतियोगितायां राष्ट्रीयस्तरस्य प्रतिभागिनः अपि उत्साहपूर्वकं सहभागितां कृतवन्तः। बालकानां बालिकानां च योगप्रदर्शनं दृष्ट्वा सर्वे दर्शकाः अतीव विस्मिताः अभवन्। 

   कार्यक्रमे निर्णायकमण्डले सन्तोषी रावतप्रशिक्षिका, सोनमरावतप्रशिक्षिका, शुभमरावतप्रशिक्षिक:, कविता कण्डवालप्रशिक्षिका तथा प्राचार्य: श्री संजयरावत: इत्येते विशिष्टाः व्यक्तयः निर्णायकभूमिकां निर्वहन्तः आसन्। 

 योगप्रतियोगिताकार्यक्रम: वैदिकगुरुकुल–कण्वाश्रमे  स्वामीविश्वपालजयन्तवर्यस्य परमसान्निध्ये समुपस्थितोभवत्।प्रतियोगितायाः शुभारम्भे स्वामिवर्यश्च  गुरुकुलस्य प्रधानाचार्यः मनमोहननौटियालः, योगमहाविद्यालयस्य प्राचार्यः संजय: रावतः, डा. राजवीरवर्य:, डा. रमाकांतकुकरेती, हेमन्ततिवारीवर्य:  स्वामी विरक्तदेवः, पूजा अग्रवालवर्या,   डा. मेजर् वीरपालविद्यालंकारः , जयवीररावत:, सचिनरावत:, रविन्द्ररावतश्च सार्थकयोगशालाया: संरक्षकः राकेशकण्डवालः, संस्कृतभारत्याः नगराध्यक्षः डा. रमाकान्तकुकरेती, विभाग–सहसंयोजकः कुलदीपमैन्दोला च गुरुकुलस्य सहभागिन: आचार्या:  गणमान्याः अतिथयः दीपप्रज्वलनं कृतवन्तः। प्रारम्भे वैदिकवटुभि: सरस्वतीवन्दनं च मन्त्रोच्चारणं विहितं सहैव च  सार्थककण्डवालद्वारा संगीतमययोग: प्रदर्शित: तथा च सौम्यासंस्कृतिद्वारा अपि प्रारम्भिकयोगमयीप्रस्तुति: प्रदत्ता ।


अस्मिन् अवसरे योगस्य शारीरिक–मानसिक–आध्यात्मिकमहत्त्वं वक्तृभिः प्रतिपादितम्। योगेन जीवनं स्वस्थं, संयमितं च भवतीति सर्वेषां संदेशः प्रदत्तः। कार्यक्रमस्य अन्ते आयोजकैः प्रतिभागिनां प्रशंसा कृत्वा उज्ज्वलभविष्यस्य शुभाशयाः व्यक्ताः।

अस्मिन् अवसरे आश्रमस्य संस्थापकः स्वामी विश्वपालजयन्तः योगस्य महत्त्वं प्रतिपादयन् अवदत्—योगः न केवलं शारीरिकस्वास्थ्यस्य साधनम्, अपि तु मानसिकशान्तेः, आत्मानुशासनस्य च आधारः अस्ति। योगाभ्यासेन जीवनं संतुलितं भवति, मनः प्रसन्न: भवति, व्यक्तित्वस्य सर्वाङ्गीणः विकासश्च जायते।

डा. मेजर् वीरपालविद्यालंकारः छात्रान् “ऑपरेशनसिन्दूर” इति विषयकं उदाहरणं प्रस्तूय योगस्य अनुशासनं, साहसं, राष्ट्रसेवाभावं च प्रेरणारूपेण अवदत्। डा. रमाकान्तकुकरेती अपि स्ववक्तव्ये अवदत् यत् योगः जीवनं दृढं करोति, कष्टेषु धैर्यं ददाति, आरोग्यं च वर्धयति। कार्यक्रमे हेमन्ततिवारीवर्य:  स्वामी विरक्तदेवः, पूजा अग्रवालवर्या,  जयवीररावत:, सचिनरावत:, रविन्द्ररावतश्च स्व–स्व विचारान् व्यक्तवन्तः।

योगप्रतियोगितानां संचालनं कुलदीपमैन्दोलामहोदयेन च मञ्चीयस्वागतस्य सुचारु–सञ्चालनं डा. राजवीरवर्येण कृतम्। योगस्य त्रिविधसंयोजनं राकेशकण्डवालमहाभागेन अत्यन्तं कुशलतया प्रदर्शितं, येन उपस्थितानां मनांसि भृशं प्रफुल्लितानि अभवन्।