OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 3, 2026

 महिला टि-२० विश्वचषकः। 

हर्मन् प्रीता नायिका।

हर्मन् प्रीत् कौर्।

मुम्बई> अस्मिन् वर्षे सम्पद्यमानस्य महिलानां  टि-२० क्रिकेट विश्वचषकस्य भारतसंघः सज्जः।हर्मन् प्रीत कौर् नायिका भविष्यति। उपनायिका तु स्मृती मन्थाना। १५ अङ्गोपेतदले   पेस् बौलर् नन्दिनी शर्मा नूतनमुखं भवति। 

 जूण् १२तमदिनाङ्कतः  जूलाय् ५तमदिनाङ्कपर्यन्तम् इङ्गलाण्ट्, वैल्स् इत्यत्र स्पर्धाः भविष्यन्ति।  जूण् १४ तमे पाकिस्थानं विरुध्य अस्ति भारतस्य प्रथमस्पर्धा।

Saturday, May 2, 2026

 'कोहिनूर्' भारताय प्रत्यर्पणीयं - मंदानी।


न्यूयोर्क्> ब्रिटिश राजपरिवारस्य पालने वर्तमानं कोहिनूर् रत्नं भारताय प्रत्यर्पणीयमिति न्यूयोर्क् नगरपतिना सोहरान् मंदानिना निर्दिष्टम्। ब्रिटनस्य चाल्स् राजस्य सन्दर्शनवेलायामासीत् मंदानेः अयं परामर्शः। राजानं प्रति साक्षात्सम्भाषणाय सन्दर्भः लभते चेत् रत्नप्रत्यर्पणाय तं प्रेरयिष्यामीति मंदानिनोक्तम्। 

  'प्रकाशस्य पर्वतः' 

    पेर्ष्या भाषायां कोहिनूर् इत्यस्य  'प्रकाशस्य पर्वतः' इत्यर्थः। १०५. ६ कारट् शुद्धोपेतमिदं रत्नं १३ तमे शतके कोल्लूर् खनेः [अद्यतनं तेलङ्कानं] काकतीयराजवंशस्य काले   खनितमिति कथ्यते। तदनन्तरं मुगल-पेर्ष्य-अफ्गान-राजवंशैः उपसंक्रम्य रत्नं सिखमहाराजस्य दुलीपसिंहस्य हस्तं प्राप्तम्। १८४९ तमे वर्षे पञ्चाबः ब्रिटीशस्याधीने अभवत्। ततः रत्नं विक्टोरिया राज्ञ्याः हस्तगतमभवत्। तदा दशवयोमात्रात् सिखराजात् भीषणिमुपयुज्य करस्थीकृतमासीत् इति भारतस्य वादः। 

  भारतस्वातन्त्र्येनैव रत्नं प्रत्यानेतुं भारतस्य प्रयत्नः प्रारब्धः आसीत्।

Friday, May 1, 2026

 होर्मुस् उद्घाटयितुं यू एसेन अन्ताराष्ट्रीयसाह्यं मार्गते। 

वाषिङ्टणः> होर्मुस् समुद्रसङ्कोचद्वारा महानौकायातायातं पुनःस्थापयितुं अमेरिकाराष्ट्रेण अन्ताराष्ट्रीयसाहाय्यं मार्गते। नूतनं किमपि अन्ताराष्ट्रीयसख्यं रूपीकर्तुमेव यू एसेन लक्ष्यीक्रियते। तदर्थं यू एस् इतराणि विदेशराष्ट्राणि प्रेरयतीति सूच्यते। 

  होर्मुस् द्वारा यातायाते स्थगिते तैलेन्धनमूल्यं चतुर्भ्यः वर्षेभ्यः उच्चस्तरं प्राप्तमस्ति। पश्चिमेष्यायुद्धपरिसमाप्तेः अनन्तरमेव एतादृशसख्यस्य अंशो भविष्यतीति ब्रिटनं, फ्रान्स् इत्यादिभिः राष्ट्रैः उक्तम्।

 ६५७ पुरावस्तूनि यू एस् भारताय प्रत्यदात्। 

यू एसेन भारताय प्रत्यर्पितौ अवलोकितेश्वर-गणेशशिल्पौ।

न्यूयोर्क्> १. ४ कोटि डोलर् [१३३कोटि रूप्यकाणि] मूल्योपेतानि पौराणिकवस्तूनि यू एस् भारताय प्रत्यदात्। मान् हाट्टन् जनपदस्य अधिकारी - अटोर्णी - आल्विन् ब्राग् इत्यनेन एवेदं निगदितम्। न्यूयोर्कस्य भारतस्थानपतिः [Counsel] राज् लक्ष्मी कदम् नाम्ना भागं कृतवति कार्यक्रमे आसीत् प्रत्यर्पणम्। 

 पुरावस्तुचौर्यसंघद्वारा आसीत् इमानि वस्तूनि यू एस् प्राप्तानि। सामान्यतया १९ कोटि रूप्यकाणि मूल्योपेतः  कांस्यनिर्मितः 'अवलोकितेश्वरशिल्पः, नृत्यन् 'गणेशः' इत्यादयः प्रत्यर्पितवस्तुषु अन्तर्भवन्ति।

Thursday, April 30, 2026

 बङ्गलुरुनगरे आवेष्टकं संनिपत्य ७ मरणानि। 

दुरन्तस्य दृश्यम्। चित्राभ्यन्तरे मृते केरलीयमहिले। 

बङ्गलुरु> नगरस्थे जनसम्मर्दोपेते वाणिज्यकेन्द्रे शिवाजीनगरे ग्रीष्मकालीनवर्षहेतुना आतुरालयस्य आवेष्टकं संनिपत्य सप्त जनाः मृताः। तेषु द्वे विनोदपर्यटनाय प्राप्तवत्यौ  केरलीयमहिले स्तः। अन्ये सर्वे कर्णाटकीयाः च भवन्ति। 

  शिवाजीनगरस्थस्य 'बौरिंग्'नामकातुरालयस्य आवेष्टकभित्तिरेव बुधवासरे सायं सार्धषट्वादने आपन्नायां वृष्ट्यां सन्निपतितः। मार्गापणवाणिभे मग्नाः आपणिकाः क्रयेतारश्च दुर्घटनाधीनाः जाताः। मृते केरलीयमहिले 'कुटुम्बश्री'संस्थाद्वारा विनोदयात्रार्थं प्राप्तवत्यौ आस्ताम्। दुर्घटनायां राष्ट्रपतिः, प्रधानमन्त्री इत्यादयः अन्वशोचन्।

Wednesday, April 29, 2026

 गंगा त्वरितमार्ग: राष्ट्राय समर्पितः ।

   उत्तरप्रदेशस्य दीर्घतम: त्वरितमार्ग: भारतस्य बृहत्तमेषु हरितक्षेत्रपरियोजनासु अन्यतमः 'गंगा द्रुतमार्ग:' प्रधानमन्त्रिणा राष्ट्राय समर्पित:। ५९४ किलोमीटर् दीर्घ: अयं मार्ग: उत्तरप्रदेशस्य बृहत्तम: षट्श्रेणीयुक्तमार्ग: अस्ति य: राज्यस्य १२ जनपदान् संयोजयति। अस्य निर्माणाय ३६,२३० कोटिरूप्यकाणि व्ययीकृतानि। अनेन मार्गेण मेरठत: प्रयागराजपर्यन्तं यात्रासमय: ११ होरात: ६ होरासु सीमितं भविष्यति। इदानीं षट्श्रेणीयुक्त: अयं मार्ग: भविष्यकाले अष्टश्रेणी पर्यन्तं परिष्कर्तुं शक्यते तथा च अस्य मार्गस्य वेगपरिधिः प्रतिहोरायां १२० किलोमीटर् इति निश्चिता।

 वंगनिर्वाचनस्य अन्तिमचरणम् अद्य। 

कोल्कोत्ता> पश्चिमवंगे विधानसभानिर्वाचनस्य द्वितीयं तथा अन्तिमं च चरणं बुधवासरे सम्पत्स्यते। १४२ मण्डलेषु अस्ति जनविधिः। प्रचरणवेलायां जातानि आक्रमणानि संघर्षप्रकरणानि चालक्ष्य आराज्यं सुरक्षा विधत्ता।

 'ओपेक्' अंगत्वं यू ए ई राष्ट्रेण परित्यजते। 

दुबाय्> पेट्रोलियम् उत्पन्नानां निर्यातराष्ट्राणां सञ्चालकसमित्याः [Organization of Petroleum Exporting Countries - OPEC] अङ्गत्वं यू ए ई राष्ट्रं परित्यजति। मेय् प्रथमदिने  'ओपेक्', 'ओपेक् प्लस्' इति संघटनाद्वयात् अपसरिष्यतीति राष्ट्रेण उद्घोषितम्। राष्ट्रीयहितमालक्ष्य एव इदमपसरणमिति निगदितं च। 

  ओपेक् सख्येन सह ५९ संवत्सराणां संबन्ध एव यू ए ई राष्ट्रेण उपेक्ष्यते। १९६७ तमे वर्षे आसीत् राष्ट्रस्य ओपेक् प्रवेशः। तैलेन्धनोत्पादने नियन्त्रणं, प्रातिवेशिकराष्ट्रेण सौदी अरेब्यया सह अस्वारस्यः च अपसरणस्य हेतुरिति सूच्यते।

Tuesday, April 28, 2026

 राष्ट्रे अधिकतमं तापमानं अकोला इत्यत्र अङ्कितं - ४६. ९ डिग्री ।

नागपुरं> भारते अधिकतमं तापमानं ४६. ९ डिग्री सेल्ष्यस् महाराष्ट्रे अकोला इत्यत्र अङ्कितम्। नागपुरस्थात् पर्यावरणकेन्द्रात् वार्तेयं निगदिता। प्रमुखनगरेषु तापमानम् एवमस्ति - अमरावती- ४६. ८, वार्धा - ४६. ४, यवन्मालं - ४६, नागपुरं - ४५. ४, चन्द्रापुरं - ४५ डिग्री सेल्ष्यस् । राज्ये बहवः  प्रदेशाः उष्णतरङ्गात् भीताः वर्तन्ते।

 ओडीषा 

सूर्यातपेन द्वौ अध्यापकौ मृतौ।


 

भुवनेश्वरं> ओडीषाराज्ये दिनद्वयाभ्यन्तरे द्वौ अध्यापकौ सूर्यातपेन मृतौ। जनसंख्यागणनासेवामध्ये आसीत् अयं दुरन्तः। 

  मयूरभञ्ज् जनपदे बैद्यनाथ उच्चविद्यालये अध्यापकः राजकपूरः रविवासरे आतुरालये मृत्युं गतवान्। जनसंख्यागणनानन्तरं प्रतिनिवृत्ते सति मूर्छाबाधितः सः आतुरालयं प्रवेशितः आसीत्। इतरः अध्यापकः सुन्दर्गढजनपदे शनिवासरे कर्मवेलायां सूर्यातपेन मृतः आसीत्। एप्रिल् २१ तमे दिनाङ्के अपि कश्चन सर्वकारसेवकः जनसंख्यागणनाभ्यन्तरे मृतवान्। राज्ये बहुषु जनपदेषु सूर्यतापमानं ३७ डिग्री सेल्ष्यस् मिताधिकमस्ति।

 लष्करभीकरः पाकिस्थाने हतः।

श्रीनगरं> आविश्वं बह्वीभिः अन्वेषणसंस्थाभिः मार्ग्यमाणः लष्कर् ई तोय्बा भीकरः अज्ञातैः गुलिकास्त्रधारिभिः हतः। लष्करस्य वरिष्ठकमान्डर् पदीयः षैक् यूसफ् अफ्रीदि नामक एव हत इति राष्ट्रियवार्तामाध्यमैः वृत्तान्तीकृतम्। पाकिस्थाने खैबर् पख्तूण् ख्व इत्यस्मिन् प्रान्ते आसीदस्य वधः प्रवृत्तः। 

  लष्करकमान्डर् हाफीस् सयीद् इत्यस्य अनुयायिप्रमुखः आसीत् यूसफ् अफ्रीदी। खैबर् पख्तूण् ख्व प्रान्ते भीकरप्रवर्तनस्य मुख्यसंघाटकः आसीत्। समीपकाले पाकिस्थाने भीकरमुख्याः अज्ञातैः हताः आसन्।

  रष्येन भारताय नूतना क्षेपणास्त्ररोधकप्रणाली  प्रदत्ता।

   नवदेहली:> ' ओपरेषन् सिन्दूर्' इत्यस्य प्रथमवर्षपूर्त्यवसरे भारतस्य प्रतिरोधरक्षायाः आधारस्तम्भरूपां अन्यदेकाम् 'एस्-४००' (S-400) क्षेपणास्त्ररोधकप्रणालीं रष्यादेशः भारतं प्रति प्रेषितवान्। अस्याः प्राप्त्या भारते विद्यमानानां एस-४०० प्रणाीलीनां सङ्ख्या चतस्रः भविष्यति। उक्रेन्-देशेन सह युद्धे प्रवृत्ते सत्यपि, प्रधानमन्त्रिणः मोदिनः स्नेहाग्रहेण प्रेरितः पुतिन-महोदयः इमां प्रणालीं भारतं प्रति प्रेषितवान्।

​गते ' ओपरेषन् सिन्दूर्' काले पाकिस्थानस्य भ्रमरक-यन्त्राणि (Drones) युद्धविमानानि च प्रतिरोद्धुं भारतस्य 'सुदर्शनचक्र' (S-400 इत्यस्य भारतीयनाम) प्रणाली प्रभावशालिनी अभवत्। भारतस्य प्रमुखनगराणि लक्ष्यीकृत्य प्रेषितानि पाकिस्थानस्य भ्रमरक-यन्त्राणि निष्प्रभीकर्तुं सुदर्शनचक्रेण प्रमुखा भूमिका निर्वूढा। ' ओपरेषन् सिन्दूर' मध्ये पाकिस्थानस्य 'अवाक्स' (AWACS) विमानं पातयितुं एस-४०० प्रणाल्याः साहाय्येन भारतं समर्थम् अभवत्। अनेन पाकिस्थानस्य आकाश-निरीक्षणक्षमता तथा च युद्धक्षेत्रे प्रत्याक्रमणं संयोजयितुं शक्यमाना सामर्थ्यं च विनष्टम् अभवत्।

Monday, April 27, 2026

 पश्चिमवंगनिर्वाचनम्।

द्वितीयचरणं परश्वः।

कोल्कोत्ता> पश्चिमवंगे विधानसभानिर्वाचनस्य द्वितीयम् अन्तिमं च चरणं बुधवासरे सम्पत्स्यते। सघोषप्रचारणम् अद्य सायं समाप्स्यते। 

   १४९ मण्णलानि द्वितीयचरणे जनहितं कांक्षन्ते। तेषु भवानिपुरम् अतिप्राधान्यमर्हति यत्र मुख्यमन्त्रिणी ममता बानर्जी विपक्षनेता सुवेन्दु अधिकारी च परस्परं प्रतिद्वन्द्वते।

 इरानस्य मन्त्री पुनरपि पाकिस्थाने।

गतदिने पाकिस्थानात् निवृत्त आसीत्।

इस्लामबादः> शनिवासरे यू एस् प्रतिनिधीनां पाकिस्थानप्राप्तेः पूर्वम् इस्लामबादतः ओमानं प्रस्थितः  इरानस्य विदेशकार्यमन्त्री अब्बास् अराग्ची रविवासरे पुनरपि इस्लामबादं प्राप्तवान्। पाकिस्थानस्य अधिकारिभिः सह तस्य मेलनमभवत्। पश्चिमेष्यायुद्धं समापयितुम् इरानस्य निर्देशोपेतः मनोवृत्तिः तेन स्पष्टीकृतः। 

  गतदिने अराग्चेः प्रतिनिवर्तनं ज्ञात्वा यू एस् प्रतिनिधिसंघस्य इस्लामाबादयात्रा ट्रम्पेन निरस्ता आसीत्। चर्चा स्थगिता अपि पुनर्युद्धस्य संभाव्यता अपि तेन निरस्ता। एप्रिल् अष्टमदिनाङ्कतः यू एस् इरानं च युद्धविरामे सत्यपि होर्मुस् समुद्रसन्धौ संघर्षः वर्तते च।

Sunday, April 26, 2026

 केरलम्। 

अत्युष्णं दहति राज्यम्।


द्वित्राणां जीवहानिः , अनेके तापिताः। 

कोच्ची> ग्रीष्मकालातपेन केरलं दह्यते। सामान्यतया सर्वेषु जनपदेषु तापमानं ४० डिग्री सेल्ष्यस् मितमभवत्। सूर्याघातेन कण्णूर् जनपदे सनलकूमारः नामकः युवकः [३७] मृतः। कूपखननवेलायां मध्याह्ने एकवादने आसीदियं दारुणघटना। कोल्लं, पालक्काट् इत्येतयोः जनपदयोः द्वयोः वयोधिकयोः मृत्युः सूर्यातपेनेति सन्दिह्यते। मध्याह्ने निजनिजकेदारे  पतितौ आस्ताम्। शरीरमासकलं उष्णतापनस्य चिह्नानि दृष्टानि। 

 आकेरलं बहवः सूर्यातपव्रणैः आतुरालयेषु परिचर्यार्थं प्रविष्टाः। कोष़िक्कोट् जनपदे ५, इटुक्क्यां द्वौ, मलप्पुरं,कोल्लम्, आलप्पुष़ा जनपदेषु च नैके जनाः आतपव्रणिताः इति वृत्तान्तमस्ति।  न केवलं मनुष्याः , धेनु-अजादयः परिपाल्यमृगाः अपि  विनष्टप्राणाः जाताः।

  आगामिसप्ताहे ग्रीष्मकालीयवर्षेण उष्णशमनं भवेदिति पर्यावरणविभागेन सूच्यते। तावत्पर्यन्तं सर्वैः जागरूकता पालनीया इति प्रशासनाधिकारिभिः उक्तम्।

 मुनिः नारायणप्रसादः समाधिं प्राप।


अनन्तपुरी> श्रीनारायणगुरोः प्रप्रशिष्यप्रमुखः, आध्यात्मिक-तत्त्वदर्शनमण्डले विख्यातः, तथा च 'नारायणगुरुकुल'संस्थापनस्य अध्यक्षः मुनिः नारायणप्रसादः समाधिं प्राप। शनिवासरे प्रत्युषसि निजीयातुरालये आसीत् सप्ताशीतिवयस्कस्य तस्य वियोगः। भौतिकशरीरस्य समाधिकार्यक्रमः वर्कलायां गुरुनारायणगिरेः समीपम् औद्योगिकबहुमत्या विधत्तः। 

  श्रीनारायणगुरुसिद्धान्तस्य मुख्यप्रचारकस्य नटराजगुरोः शिष्यस्य गुरु नित्यचैतन्ययतेः प्रमुखशिष्यः आसीत् मुनि नारायणप्रसादः। नटराजगुरोः ब्रह्मचारिदीक्षां नित्यचैतन्ययतेः संन्यासदीक्षां च स्वीकृतवानयं नित्यचैतन्ययतिवर्यस्य समाधेरनन्तरं नारायणगुरुकुलस्य अध्यक्षपदं प्राप्य गुरुधर्मप्रचरणे निमग्नः आसीत्। नारायणगुरुमधिकृत्य नटराजगुरोः नित्ययतेः च आङ्गलेयप्रबोधनानि कैरलीं भाषान्तरं कृतवान्। स्वतन्त्रकृतयश्च अनेके सन्ति। २०२४ तमे वर्षे पद्मश्रीपुरस्कारेण समादृतः।

ट्रम्प-महोदयस्य रात्रिभोजने गुलिकाप्रहारः! ट्रम्पः सुरक्षितः।

​         वाषिङ्टणः> अमेरिकायाः राजधान्यां वाषिङ्टण-नगरे 'हिल्टन होटल' पुनरपि वार्तासु प्रमुखस्थानं प्राप्तम्। शनिवासरे यदा अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पः 'व्हाइट हाउस' पत्रकारैः सह अस्मिन् होटले एकस्यां भोजनसभायां  सम्मिलितः आसीत्, तदा दुरापन्नः अप्रतीक्षितः गुलिकाप्रहारः सर्वान् चकितान् अकरोत्।

     ​तदनन्तरं 'सीक्रेट् सर्विस्' अभिकर्तारः सत्वरमेव ट्रम्प-महोदयं तस्मात् स्थानात् सुरक्षितरीत्या बहिः आनयन्। तस्मिन् समये प्रथममहिला मेलानिया ट्रम्प, उप-राष्ट्रपतिः जे.डी. वान्सः च अपि तेन सह मञ्चे उपस्थिताः आसन्।

​    अयं गुलिकाप्रहारः ४५ वर्षेभ्यः पूर्वम् अस्मिन्नेव विश्रमालये घटिताम् अन्यां भयानकां घटनां स्मारयति। १९८१-तमे वर्षे तत्कालीनः राष्ट्रपतिः रोनाल्ड् रीगनः अस्मिन्नेव विश्रमालये आक्रान्तः आसीत्।

Saturday, April 25, 2026

 इस्रयेल-लेबननयोः युद्धविरामः सप्ताहत्रयम् अनुवर्तिष्यते। 

दुबाय्> यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य मध्यवर्तित्वे वाषिङ्टणे सम्पन्नायां चर्चायां युद्धविरामं सप्ताहत्रयं यावत् अनुवर्तितुं इस्रयेलेन लबनेन च निश्चितम्। 

  एप्रिल् १६ तमे दिनाङ्के दश दिनानि यावत् विधत्तः युद्धविरामः एव अधुना दीर्घितः। इरानं विरुध्य युद्धं समापयितुम् उत्कृष्टसन्धिं प्रतीक्षते इति ट्रम्पेन प्रोक्तम्।