OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 12, 2025

 द्वितीयं टि - २० 

दक्षिणाफ्रिका विजिता। ५

क्विन्टन् डि कोक् ।

मोहाली> क्विन्टण् डि कोक् नामकस्य कन्दुकताडकस्य प्रभावे द्वितीयायां टि-२० क्रिकट्स्पर्धायां दक्षिणाफ्रिका ५१धावनाङ्कैः विजिता जाता। प्राप्ताङ्कसूचिका - दक्षिणाफ्रिका २० क्षेपणचक्रेषु २१३/४। भारतं १९.१ क्षेपणचक्रेषु १६२ धावनाङ्कैः सर्वे बहिर्नीताः। स्पर्धाद्वये समाप्ते १-१ इति समस्थितिः प्राप्ता। आगामिस्पर्धा रविवासरे धर्मशालायां सम्पत्स्यते।

 अन्ताराष्ट्रचलच्चित्रोत्सवाय अद्य शुभारम्भः। 


अनन्तपुरी> केरले प्रतिवर्षं प्रचाल्यमानम् अन्ताराष्ट्रियचलच्चित्रोत्सवः शुक्रवासरे प्रारभते। राजधानीनगरस्थासु १६ चलच्चित्रशालासु ८२ राष्ट्रेभ्यः आगम्यमानानि २०६ चलच्चित्राणि आस्वादकसमक्षं प्रदर्शयिष्यन्ते। अष्ट दिनानि चलच्चित्रोत्सवः भविष्यति। 

  अद्य सायं षट्वादने निशागन्धिसभागारे मन्त्री सजि चेरियान् चलच्चित्रोत्सवस्य उद्घाटनं करिष्यति। चिलीराष्ट्रस्य विख्यातः निदेशकः पाब्लो लोरो मुख्यातिथिः भविष्यति। कार्यक्रमे कनेडिया चलच्चित्रकारी केल्ली फैफ् मार्षल् वर्या 'Spirit of Cenima' इति पुरस्कारेण समाद्रियते।

 केरले मतदानं ७३. ६९%।

कोच्ची> तद्देशस्वयंप्रशासनसभाः प्रति चरणद्वयात्मके निर्वाचने समाप्ते आहत्य ७३. ६९% मतदायकाः स्वाभिमतं प्रकटीकृतवन्तः। ९ तमे दिनाङ्के सम्पन्ने प्रथमचरणे ७१% , ह्यस्तने द्वितीयचरणे ७६% च मतदानं सम्पन्नम्। २०२० तमे वर्षे मतदानं ७६% आसीत्। मतगणना श्वः प्रभाते अष्टवादने आरप्स्यते।  २४४ गणनाकेन्द्राणि सन्ति।

 युक्रैने निर्वाचनाय सन्नद्धः इति सेलन्स्की।

वोलोदिमिर् सेलन्स्की।

रोमः> यू एस् राष्ट्रेण सुरक्षा प्रदास्यते चेत् युक्रैने निर्वाचनं  कर्तुं सन्नद्ध इति राष्ट्रपतिः वोलोदिमिर् सेलन्स्की प्रस्तुतवान्। इट्टल्यां रोमे वार्ताहराणां प्रश्नानां समाधानरूपेण भाषमाणः आसीत् सेलन्स्की। निर्वाचनं निराकर्तुं सेलन्स्की युद्धम् आयुधीकरोतीति  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य आरोपणस्य आधारे आसीत् सेलन्स्किवर्यस्य प्रस्तुतिः। 

  २०२४ मार्च मासे युक्रैने निर्वाचनं भवितव्यमासीत्। किन्तु २०२२ तमे वर्षे रष्यायाः अधिनिवेशे आरब्धे युक्रेनराष्ट्रं सेनाप्रशासनीधीनमभवत्। निर्वाचनं परिवर्तितं च।

 इन्डिगो विषये केन्द्रसर्वकारः दिल्ली उच्चन्यायालयेन विमृष्टः। 

नवदिल्ली> इन्डिगोसंस्थायाः अव्यवस्थया आराष्ट्रं व्योमसञ्चारः प्रतिसन्धिं प्राप इत्यस्मिन् विषये केन्द्रसर्वकारस्य व्यवहाराय विलम्बः जातः इति दिल्ली उच्चन्यायालयेन विमृष्टम्। प्रकरणे अतितीव्रे जाते एव प्रशासनस्य प्रक्रमः अभवत्, तावत्पर्यन्तं किं निरीक्षितमिति मुख्यन्यायाधिपः देवेन्द्रकुमार उपाध्यायः, न्यायाधीशः तुषार रावु गेडेला इत्येतयोः नीतिपीठेन पृष्टम्। यात्राप्रतिसन्धिविषये न्यायविचारान्वेषणम् [Judicial inquiry] आवश्यकमिति सामान्ययाचिकायाः परिगणनावसरे आसीदयं विमर्शः। यात्रिकाणां सुरक्षाविषये कापि अनास्था मास्तु इति नीतिपीठेन निर्दिष्टम्।

Thursday, December 11, 2025

 तिरुप्पतिमन्दिराय प्रदत्तं कौशेयोत्तरीयं  कृत्रिमतन्तुना निर्मितम्। दशसंवत्सराभ्यन्तरे ५४ कोटिरूप्यकाणि चोरितानि।

अमरावती (आन्ध्रापदेशः)> आन्ध्राप्रदेशे प्रसिद्धस्य तिरुमल मन्दिरस्य परिपालनसंस्थां तिरुप्पति देवस्थानं नाम न्यासं वञ्चयित्वा कोटिशानि  रूप्यकाणि प्रसंवेदकेन (contractor) वञ्चनारूपेण कबलितानि।  २०१५ संवत्सरतः २०१५ संवत्सरपर्यन्तं कृत्रिमतन्तुनिर्मितम् उत्तरीयमेव प्रसंवेदकेन मन्दिराय दत्तम्। दशवर्षाभ्यन्तरे एवंरीत्या ५४ कोटि रूप्यकाणि स्ववशंकृतानि। निवेदनरेखासु (tender ) कौशेयोत्पन्नानि इत्येव सूचितमस्ति।

 कौमारकहोक्की विश्वचषकः

विश्ववीरः जर्मनी; भारतस्य तृतीयस्थानम्। 

कौमारकिरीटं प्राप्तः जर्मनीदलः। 

चेन्नै> कौमारकाणां विश्वयष्टिक्रीडावीरतास्पर्धायाः अन्तिमे प्रतिद्वन्द्वे वर्तमानीनवीरः जर्मनीदलः वीरतापदम् उपास्थापयत्। स्पेयिनदलं त्वरितलक्ष्यवेधने ३-२ इति क्रमेण पराजित्य एव जर्मन्याः किरीटप्राप्तिः। निश्चितसमये दलद्वयमपि समस्थितिं प्राप्तमासीत् १ - १ इति।

  विनष्टान्तिमयोः [Loser's final] प्रतिद्वन्द्वे अर्जन्टीनादलं निष्प्रभं कृत्वा भारतेन तृतीयस्थानं सम्प्राप्तम्। प्रथमार्धकाले लक्ष्यद्वयस्य पृष्ठतः स्थित्वा अनन्तरं समुज्वलेन क्रीडनेन आसीत् भारतस्य विजयप्राप्तिः। द्वितीयार्धे भारतं चत्वारि लक्ष्यकन्दुकानि अपि  सम्प्राप्य विजयी अभूत्।



 ऊनषोडशवयस्कानां सामाजिकमाध्यमनिरोधः। 

आस्ट्रेलियायां नियमः प्रवृत्तिपथमागतः। 

कान्बरा> ऊनषोडशवयस्काः बालकाः सामाजिकमाध्यमेभ्यः निरुद्धाः इत्येवं नियमितानां मध्ये  विश्वस्मिन् प्रथमराष्ट्रमिदं, सा ख्याति आस्ट्रेलियायै एव। एषः नियमः राष्ट्रे कुजवासरे प्रबलः जातः। अनेन इन्स्टग्रामः, फेय्स् बुक्, एक्स्, टिक् टोक्, यू ट्यूब् इत्यादिषु सामाजिकमाध्यमेषु कौमारवयस्कानां लक्षशः दत्तसंख्याः निर्जीवाः भवेयुः। 

  नियमोल्लंघने बालकाः वा रक्षितारो वा न दण्ड्याः, प्रत्युत, सामाजिकमाध्यमसंस्थाभ्यः  ४९. ५ कोटि आस्ट्रेलियाडोलर् मितं [२९५  कोटि रूप्यकाणि] द्रव्यदण्डं विधास्यति। दुर्घटनात्मकेभ्यः अनुक्रमणिकेभ्यः राष्ट्रस्य नूतनपरम्पराः परिपालनीयाः इत्येव लक्ष्यमिति सर्वकारेण निगदितम्। 

 सर्वकारस्यास्मिन् प्रक्रमे कुमाराः तापमनुभवन्ति।। सम्पूर्णनिरोधस्य स्थाने दुर्घटनात्मकानाम् अनुक्रमणिकानां निरोधः आसीत् वरमिति केचन कथयन्ति।


  

Wednesday, December 10, 2025

 केरले तद्देशनिर्वाचनस्य द्वितीयचरणं श्वः। 

अनन्तपुरी> केरलराज्ये प्रादेशिकप्रशासनेभ्यः प्रचाल्यमानस्य निर्वाचनस्य द्वितीयचरणं गुरुवासरे सम्पत्स्यते। मङ्गलवासरे सघोषप्रचारणं सोज्वलं समाप्तम्। अद्य निश्शब्दप्रचरणस्य कालः अस्ति। 

  तृश्शूर् जनपदात् आरभ्य कासरगोडपर्यन्तं सप्त जनपदेषु एव श्वः निर्वाचनम्।   ६०४ स्वयंप्रशासनेभ्यः १२३९१ प्रादेशिकसदस्याः निर्वाचनीयाः सन्ति। स्थानाशिनः ३८,८८४ तथा मतदानिनः सार्धैककोट्यधिकसंख्याकाः च सन्ति।

 इन्डिगो संस्थायाः १०% सेवां न्यूनीकर्तुं केन्द्रसर्वकारस्य आदेशः। 


नवदिल्ली> व्योमयात्रासेवायाम् इन्डिगो संस्थायाः अव्यवस्थामाधारीकृत्य दश प्रतिशतं सेवां न्यूनीकर्तुं केन्द्रसर्वकारस्य आदेशः। संस्थायाः प्रतिनिधिसंघेन सह उपवेशनानन्तरं केन्द्रव्योमयानमन्त्रिणा के राम मोहन नायिडुना निगदितमेतत्। अस्मात् कारणात् शैत्यकालसेवायां इन्डिगो संस्थायाः २३० सेवाः निरस्यमानाः भविष्यन्ति। 

  आहत्य वर्तमानेषु २३०० प्रतिदिनसेवासु ह्यः ४००+ सेवाः निरस्ताः जाताः। दिल्ल्यामेव १५० सेवाः निरस्ताः।

 हार्दिक पाण्ड्यस्य ताडनपटहेन

टि २० मध्ये भारतस्य विजयः। 

दक्षिणाफ्रिकां विरुध्य हार्दिक पाण्ड्यस्य कन्दुकताडनम्। 

कट्टकः>  विमुक्ताहतस्य हार्दिक पाण्ड्यस्य स्फोटकात्मकार्धशतकस्य आधारे दक्षिणाफ्रिकां विरुध्य प्रथमे टि २० प्रतिद्वन्द्वे भारतस्य १०१ धावनाङ्कानाम्  उज्वलविजयः। प्राप्ताङ्कसूचिका - भारतेन २० क्षेपणचक्रे १७५/६। दक्षिणाफ्रिका १२.३ क्षेपणचक्रे ७४ धावनाङ्कैः सर्वे बहिर्नीताः।

Tuesday, December 9, 2025

 भारत-दक्षिणाफ्रिका टि-२० परम्परायै अद्य प्रारम्भः। 

कट्टक्>  निकष-एकदिनस्पर्धापरम्परायाः परं क्रिकटे भारत-दक्षिणाफ्रिकयोः टि - २० परम्परायाः प्रथमस्पर्धा ओडीशायां कट्टक्कनगरस्थे बाराबती क्रीडाङ्कणे अद्य रात्रौ सप्तवादनतः सम्पद्यते। आहत्य पञ्च स्पर्धाः सन्ति। सूर्यकुमारयादवो भवति भारतस्य नायकः। 

  निकषपरम्परा दक्षिणाफ्रिकया प्राप्ता; एकदिनपरम्परा तु भारतेन च।

 सप्त जनपदेषु अद्य जनविधिः। 

कोच्ची>  केरले त्रयस्तरपञ्चायत्तनिर्वाचनस्य अंशतया तिरुवनंतपुरंतः एरणाकुलपर्यन्तं सप्त जनपदेषु मङ्गलवासरे  निर्वाचनं सम्पद्यते। चरणद्वयेन एव प्रादेशिकस्वयंप्रशासनसभानिर्वाचनं भविष्यति। द्वतीयचरणत्वेन इतरेषु सप्त जनपदेषु  गुरुवासरे निर्वाचनं भविष्यति। ग्रामप्रदेशेषु त्रीणि मतदानानि करणीयानि।  नगरप्रदेशेषु एकं मतदानमेव कर्तव्यम्। प्रभाते सप्तवादनतः सायं षट्वादनपर्यन्तं भवति मतदानप्रक्रिया।

Monday, December 8, 2025

 इन्डिगो व्योमसेवास्थगनं 

इतरव्योमसेवासंस्थानाम् आर्थिकलुण्ठने केन्द्रप्रशासनस्य प्रग्रहः। 

मुम्बई> कतिपयदिनैः अनुवर्तमानम् इन्डिगोसंस्थायाः प्रतिसन्धिम्  अवकाशं कृत्वा एयर् इन्डियासहिताः व्योमसेवासंस्थाः यात्रिकेभ्यः आर्थिकं चूषणमकुर्वन्। वर्तमानमूल्यात् दशगुणितं यावत् रूप्यकाणि चीटिकामानरूपेण विधत्तानि। दिल्ली-कोच्ची ४५,०००; दिल्ली-अनन्तपुरी  ४८,००० रूप्यकाणि आसीत् वर्धापितमूल्यम्। मुम्बई, हैदराबादः, बङ्गलुरु इत्यादिभ्यः स्थानेभ्यः च अमितमूल्यवर्धनं कृतम्। 

  किन्तु आराष्ट्रं प्रतिषेधे शक्ते व्योमयानमन्त्रालयस्य व्यवहारेण विमानयात्रामानाय परिधिः निश्चितः। ५०० कि मी दूरपर्यन्तं ७,५००; ५०० तः १०००कि मी पर्यन्तं १२,०००;१०००तः १५०० कि मी पर्यन्तं १५,००० रूप्यकाणि क्रमात् परिधिः निश्चितः।

 इन्डिगो प्रतिसन्धिः। 

६१० कोटि रूप्यकाणि प्रत्यर्पितानि। 

नवदिल्ली> वैमानिकानां सेवासमयपरिष्करणेन प्रतिसन्धिं प्राप्तायाः इन्डिगो व्योमयानसंस्थायाः प्रवर्तनं रविवासरे अपि व्यवस्थाहीनमभवत्। आहत्य वर्तमानासु २३०० सेवासु १६५० सेवा एव ह्यः विधत्ताः। ६५० संख्याकाः निरस्ताः। 

  अद्यावधि येषां व्योमयात्रा निरस्ता तेभ्यः ६१० कोटि रूप्यकाणि चीटिकाप्रत्यर्पणरूपेण [Ticket refund] प्रतिदत्तानि। रविवासरात्पूर्वं प्रत्यर्पणराशिः दातव्य इति व्योमयानमन्त्रालयस्य निर्देशः आसीत्। विमाननिलयेषु लग्नानि ३००० भाण्डानि यात्रिकसङ्केतं प्रति प्रापितानीति च इन्डिगो संस्थया निगदितम्। डिसम्बर् दशमदिनाङ्केन विमानसेवा साधारणस्थितिं प्राप्स्यतीति च संस्थया प्रस्तुतम्।

 गोवायां निशासमाजे अग्निबाधा

मरणानि २५ अभवन्। 

अग्निबाधितस्य निशासमाजस्य अन्तर्भागः। 

पनजी> उत्तरगोवायां अर्पोरा इत्यत्र 'बिर्च् बै रोमियो लेन्' नामके निशासमाजे रविवासरस्य प्रत्युषसि दुरापन्ने अग्निप्रकाण्डे मृतानां संख्या २५ अभवत्। तत्र विधत्तम् 'अग्निप्रदर्शन'मेव [fire show] अग्निबाधायाः हेतुरिति मन्यते। पञ्च विनोदसञ्चारिणः २० सेवकाश्च मृत्युमुपगताः। 

  सुरक्षाप्रक्रियां विना अग्निप्रदर्शनं कृतम् इति प्रकरणने संस्थायाः प्रयोजकमभिव्याप्य पञ्च जनाः निगृहीताः। समाजस्य स्वामिनौ सौरभ् लूत्रः, गौरव लूत्रः इत्येतयोः नाम्नि अपराधप्रकरणं पञ्जीकृतम्।

Sunday, December 7, 2025

 अस्मिन् वर्षे भारतस्य  ७% आर्थिकवृद्धिः प्रतीक्षते। 

मुम्बई> भारतस्य आर्थिकाभिवृद्धिः सशक्तम् अनुवर्तते, अस्मिन् आर्थिकसंवत्सरे ७% वृद्धिः प्रतीक्षते इति वित्तमन्त्रिणा निर्मला सीतारामेण प्रस्तुतम्। हिन्दुस्थान् टैम्स् इत्यस्य कार्यक्रमे भाषमाणा आसीत् वित्तमन्त्री। 

  इदानीं ६. ३ - ६. ८ प्रतिशतं वृद्धिरेव सर्वकारेण निर्णीतम्। किन्तु वर्षस्य द्वितीयपादे अप्रतीक्षतया ८. २% वृद्धिरङ्कितमासीत्। अतः मुख्यार्थिकोपदेष्टा अनन्तनागेश्वरः ७% वृद्धिः प्रावोचत्। अस्याधारे एव वित्तमन्त्रिणा अपि तावती वृद्धिः प्रतीक्षते।

Saturday, December 6, 2025

 एकदिनक्रिकटे विशाखविजयः। 

भारतस्य परम्पराप्राप्तिः।

यशस्वी जयस्वालस्य शतकप्राप्तिः। 

विशाखपट्टणं> दक्षिणाफ्रिकां विरुध्य विशाखपट्टणे सम्पन्ने तृतीये अन्तिमे एकदिनक्रिकट् प्रतिद्वन्द्वे भारतस्य अनुपमविजयः। दक्षिणाफ्रिकां नव द्वारकैः पराजित्य भारतं परम्परां सम्प्राप। 

  ५० क्षेपणचक्रेषु १० ताडकानां विनष्टे २७० धावनाङ्काः दक्षिणाफ्रिकया सम्पादिताः। प्रत्युत्तरक्रीडायां केवलमेकस्य कन्दुकताडकस्य विनष्टे २७१ धावनाङ्कान् सम्पाद्य भारतेन परम्परा प्राप्ता २ - १। ६१ कन्दुकेषु अवशिष्टेषु आसीत् भारतस्य उज्वलविजयः। यशस्वी जयस्वालस्य शतकं (११६), विराट कोहली (६५), रोहित शर्मा च अर्धशतकं च प्राप्तवन्तौ।

Latest news