OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 17, 2025

 मध्यप्रदेशे स्वीकृतरक्तानां षट् बालकानां 'एछ् ऐ वि' बाधा। 

इन्दोर्> मध्यप्रदेशे विविधेभ्यः आतुरालयेभ्यः रक्तं स्वीकृतवन्तः 'तलासीमिया' रोगेण पीडिताः षट् बालकाः HIV [एय्ड्स्]  रोगाधीनाः जाताः। १२ - १५ वयस्काः भवन्ति  ते। तलासीमिया रोगपरिहाराय अनुक्रमेण रक्तपरिवर्तनस्यान्तरे एव रोगबाधा। 

  नूतनरक्तपरिवर्तनानन्तरं बालकानां शारिरिकास्वास्थ्ये जाते परं कृते परिशोधने आसीत् एयिड्स्  रोगनिर्णयः। अस्मिन् वर्षे जनुवरिमासतः मेय्मासपर्यन्तं कालपरिधौ आसीत्  रोगप्रकरणानि आवेदितानि। मध्यप्रदेशस्य स्वास्थ्यमन्त्रिणा राजेन्द्र शुक्लेन अन्वेषणाय आदेशः दत्तः।